Go To Mantra
Viewed 97 times

स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्। बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥

Mantra Audio
Pad Path

स्वधा । अस्तु । मित्रावरुणा । विप:ऽचिता । प्रजाऽवत् । क्षत्रम् । मधुना । इह । पिन्वतम् । बाधेथाम् । दूरम् । नि:ऽऋतिम् । पराचै: । कृतम् । चित् । एन: । प्र । मुमुक्तम् । अस्मत् ॥९७.२॥

Atharvaveda » Kand:6» Sukta:97» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा की उन्नति का उपदेश।

Word-Meaning: - (विपश्चिता) हे बड़े बुद्धिमान् (मित्रावरुणा) प्राण और अपान के समान प्रिय माता-पिता ! [हम में] (स्वधा) आत्मधारण शक्ति (अस्तु) होवे, (प्रजावत्) उत्तम प्रजाओं से युक्त (क्षत्रम्) राज्य को (मधुना) मधुविद्या से [ईश्वरज्ञान से] (इह) यहाँ पर (पिन्वतम्) सींचो। (निर्ऋतिम्) अलक्ष्मी को (पराचैः) अधोमुख करके (दूरम्) दूर (बाधेथाम्) हटाओ और [इसके] (कृतम्) किये हुए (एनः) दुःख को (चित्) भी (अस्मत्) हम से (प्र) अच्छे प्रकार (मुमुक्तम्) छुड़ाओ ॥२॥
Connotation: - जिस प्रकार सन्तान माता-पिता से उत्तम शिक्षा पाकर सुख भोगते हैं, इसी प्रकार मनुष्य उत्तम ज्ञानियों के सत्सङ्ग से क्लेशों का नाश करके सुखी होवें ॥२॥
Footnote: २−(स्वधा) अ० ६।९६।३। आत्मधारणशक्तिः (अस्तु) भवतु (मित्रावरुणा) प्राणापानवत् प्रियमातापितरौ (विपश्चिता) अ० ६।५२।३। मेधाविनौ (प्रजावत्) उत्तमप्रजायुक्तम् (क्षत्रम्) राज्यम् (मधुना) मधुविद्यया। ईश्वरज्ञानेन (इह) अत्र लोके (पिन्वतम्) पिवि सेचने, इदित्वान्नुम्। सिञ्चतम्। प्रवर्धयतम् (बाधेथाम्) निवर्त्तयतम् (दूरम्) (निर्ऋतिम्) अ० १।३१।२। अलक्ष्मीम् कृच्छ्रापत्तिम्−निरु० २।७। (पराचैः) अ० २।१०।५। पराङ्मुखीं कृत्वा (कृतम्) निर्ऋत्या निष्पादितम् (चित्) अपि (एनः) दुःखम् (प्र) प्रकर्षेण (मुमुक्तम्) छान्दसः शपः श्लुः। मोचयतम् (अस्मत्) धार्मिकेभ्यः सकाशात् ॥