Go To Mantra
Viewed 96 times

त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः। अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥

Mantra Audio
Pad Path

त्रायध्वम् । न: । अघऽविषाभ्य: । वधात् । विश्वे । देवा: । मरुत: । विश्वऽवेदस: । अग्नीषोमा । वरुण: । पूतऽदक्षा: । वातापर्जन्ययो: । सुऽमतौ । स्याम ॥९३.३॥

Atharvaveda » Kand:6» Sukta:93» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

सत्सङ्ग के लाभ का उपदेश।

Word-Meaning: - (विश्वे) हे सब (देवाः) दिव्यगुणवाले (विश्ववेदसः) संसार के जाननेवाले (मरुतः) दोषनाशक विद्वान् पुरुषो ! (नः) हमें (अघविषाभ्यः) पापरूप विषवाली पीड़ाओं के (वधात्) हनन से (त्रायध्वम्) बचाओ। (अग्नीषोमा) अग्नि और चन्द्रलोक और (वरुणः) सूर्यलोक (पूतदक्षाः) पवित्र बलवाले हैं, [उनको और] (वातापर्जन्ययोः) वायु और मेघ की (सुमतौ) श्रेष्ठ बुद्धि में (स्याम) हम रहें ॥३॥
Connotation: - मनुष्य आप्त विद्वानों के उपदेश और अग्नि, चन्द्र, सूर्य आदि पदार्थों से यथावत् उपकार करके सुखी होवें ॥३॥
Footnote: ३−(त्रायध्वम्) पालयत (नः) अस्मान् धार्मिकान् (अघविषाभ्यः) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति षष्ठ्याः पञ्चमी। पापरूपविषयुक्तानां पीडानाम् (वधात्) हननात् (विश्वे) सर्वे (देवाः) दिव्यगुणयुक्ताः (मरुतः) अ० १।२०।१। हे दोषनाशका विद्वांसः (विश्ववेदसः) विश्वस्य जगतो वेत्तारः (अग्नीषोमा) अ० १।८।२। अग्निश्च चन्द्रश्च तौ (वरुणः) वरणीयः सूर्यः (पूतदक्षाः) दक्ष वृद्धौ गतौ च−अच्। दक्षो बलम्−निघ० २।९। पवित्रबलाः (वातापर्जन्ययोः) देवताद्वन्द्वे च। पा० ६।३।२६। इति पूर्वपदस्यानङ्। वायुमेघयोः (सुमतौ) श्रेष्ठायां बुद्धौ (स्याम) ॥