Go To Mantra
Viewed 93 times

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वोऽस्ता॒ नील॑शिखण्डः। दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥

Mantra Audio
Pad Path

यम: । मृत्यु: । अघऽमार: । नि:ऽऋथ: । बभ्रु: । शर्व: । अस्ता । नीलऽशिखण्ड: । देवऽजना: । सेनया । उत्तस्थिऽवांस: । ते । अस्माकम् । परि। वृञ्जन्तु । वीरान्॥९३.१॥

Atharvaveda » Kand:6» Sukta:93» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

सत्सङ्ग के लाभ का उपदेश।

Word-Meaning: - (यमः) न्यायकारी परमेश्वर [पापियों का] (अघमारः) पाप के कारण मारनेवाला, (मृत्युः) प्राण छोड़ानेवाला, (निर्ऋथः) निरन्तर पीड़ा देनेवाला और [धर्मात्माओं का] (बभ्रुः) पालन करनेवाला, (शर्वः) कष्ट काटनेवाला (अस्ता) ग्रहण करनेवाला और (नीलशिखण्डः) निधियों वा निवासों का देनेवाला है। (सेनया) अपनी सेना के साथ (उत्तस्थिवांसः) उठे हुए (ते) वे (देवजनाः) विजय चाहनेवाले पुरुष (अस्माकम्) हमारे (वीरान्) वीर लोगों को [विघ्न से] (परि) सर्वथा (वृञ्जन्तु) छुड़ावें ॥१॥
Connotation: - जो शूर वीर विद्वान् स्त्री-पुरुष परमात्मा को शत्रुनाशक सुखवर्धक जान कर परोपकार करते हैं, वे ही कीर्ति पाते हैं ॥१॥
Footnote: १−(यमः) नियन्ता परमेश्वरः (मृत्युः) पापिनां प्राणत्याजयिता (अघमारः) पुसिं संज्ञायां घः प्रायेण। पा० ३।३।११८। इति मृङ् प्राणत्यागे−घ। पापेन मारयिता (निर्ऋथः) अवे भृञः। उ० २।३। इति निर्+ऋ हिसायाम्−क्थन्। निरन्तरपीडकः (बभ्रुः) कुर्भ्रश्च। उ० १।२२। इति भृञ् भरणे−कु, द्विर्भावश्च। भर्त्ता। पालयिता (शर्वः) अ० ४।२८।१। कष्टनाशकः (अस्ता) अस ग्रहणे−तृन्। ग्रहीता (नीलशिखण्डः) अ० २।२७।६। नीलानां निधीनां वा नीडानां निवासानां प्रापकः (देवजनाः) विजिगीषवः पुरुषाः (सेनया) स्वस्वजनसंघेन (उत्तस्थिवांसः) उत्पूर्वात् तिष्ठतेर्लिटः−क्वसुः। उत्कर्षेण स्थिताः (ते) प्रसिद्धाः (अस्माकम्) धार्मिकाणाम् (परि) सर्वतः (वृञ्जन्तु) वृजी वर्जने। वर्जयन्तु विघ्नात् (वीरान्) पराक्रमिणः पुरुषान् ॥