Go To Mantra
Viewed 86 times

त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

Mantra Audio
Pad Path

तनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥

Atharvaveda » Kand:6» Sukta:92» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (वाजिन्) हे बलवान् राजन् ! (ते) तेरा (तनूः) शरीर (तन्वम्) हमारे शरीर को (नयन्ती) ले चलता हुआ (अस्मभ्यम्) हमारे लिये और (तुभ्यम्) तेरे लिये (वामम्) सेवनीय धन और (शर्म) सुख (धावतु) शीघ्र पहुँचावे। (अह्रुतः) कुटिलता रहित (देवः) विजय चाहनेवाले आप (धरुणाय) हमारे धारण के लिये (महः) बड़ी (त्वम्) अपनी (ज्योतिः) ज्योति (आ) भले प्रकार (मिमीयात्) निर्माण करें (दिवि इव) जैसे सूर्यमण्डल में [ज्योति] ॥३॥
Connotation: - राजा को योग्य है कि छल-कपट छोड़ कर अनेक प्रकार के वैज्ञानिक शिल्प आदि व्यवहारों से अपने लिये और प्रजा के लिये धन और सुख बढ़ा कर अद्वितीय कीर्तिमान् हो ॥३॥ इति नवमोऽनुवाकः ॥
Footnote: ३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥