Go To Mantra
Viewed 152 times

ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त्परी॑त्तः। तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥

Mantra Audio
Pad Path

जव: । ते । अर्वन् । निऽहित: । गुहा । य: । श्येने । वाते । उत । य: । अचरत् । परीत्त: । तेन । त्वम् । वाजिन् । बलऽवान् । बलेन । आजिम् । जय । समने । पारियिष्णु: ॥९२.२॥

Atharvaveda » Kand:6» Sukta:92» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (अर्वन्) हे विज्ञानयुक्त राजन् ! (यः) जो (जवः) वेग (ते) तेरे (गुहा=गुहायाम्) हृदय में (निहितः) धरा हुआ है, और (यः) जो (परीत्तः) सब प्रकार दिया हुआ [वेग] (श्येने) श्येन अर्थात् वाज पक्षी में (उत) और (वाते) पवन में (अचरत्) विचरा है। (वाजिन्) हे वेगयुक्त राजन् ! (त्वम्) तू (तेन) उस (बलेन) बल से (बलवान्) बलवान् और (समने) संग्राम में (पारयिष्णुः) पार लगानेवाला होकर (आजिम्) युद्ध को (जय) जीत ॥२॥
Connotation: - विद्वान् राजा आत्मिक बल बढ़ाकर शत्रुओं को शीघ्र जीते ॥२॥
Footnote: २−(जवः) वेगः (ते) तव (अर्वन्) अ० ४।९।२। ऋ गतिप्रापणयोः−वनिप्। हे शीघ्रगामिन्। विज्ञानिन् (निहितः) धाञ्−क्त। नितरां धृतः (गुहा) अ० १।८।४। गुहायाम्। हृदये (यः) जवः (श्येने) अ० ३।३। पक्षिविशेषे वाजे (वाते) वायौ (उत) अपि च (अचरत्) अवर्तत (परीत्तः) परि पूर्वाद् ददातेः−क्त। अच उपसर्गात्तः। पा० ७।४।४७। इति आकारस्य तकारः। झरो झरि सवर्णे। पा० ८।४।६५। इति तलोपः। दस्ति। पा० ६।३।१२४। इति इगन्तोपसर्गस्य दीर्घः। सर्वतो दत्तः (तेन) जवेन (त्वम्) (वाजिन्) हे वेगवन् (बलवान्) अतिबलयुक्तः (बलेन) पौरुषेण (आजिम्) अ० २।१४।६। युद्धम् (जय) अभिभावय। उत्कर्षेण प्राप्नुहि (समने) अ० ६।६।२। संग्रामे (पारयिष्णुः) अ० ५।२८।१४। पारप्रापकः ॥