Go To Mantra

यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्। गावो॑ घृ॒तस्य॑ मा॒तरो॒ऽमूं सं वा॑नयन्तु मे ॥

Mantra Audio
Pad Path

यासाम् । नाभि: । आऽरेहणम् । हृदि। सम्ऽवननम् । कृतम् । गाव: । घृतस्य । मातर: । अभूम् । सम् । वनयन्तु । मे ॥९.३॥

Atharvaveda » Kand:6» Sukta:9» Paryayah:0» Mantra:3


Reads 76 times

PANDIT KSHEMKARANDAS TRIVEDI

गृहस्थ आश्रम का उपदेश।

Word-Meaning: - (यासाम्) जिन [स्त्रियों] के (हृदि) हृदय में (नाभिः) स्नेह, (आरेहणम्) प्रशंसा और (संवननम्) भक्ति (कृतम्) की गयी है, (घृतस्य) घृत की (मातरः) बनानेवाली (गावः) गौएँ (अमूम्) उस [पत्नी] को (मे) मेरे लिये (सम्) यथावत् (वनयन्तु) सेवन करें ॥३॥
Connotation: - जहाँ पर पति-पत्नी प्रीतिपूर्वक रहते हैं, वहाँ घृत दुग्ध आदि पदार्थों की बहुतायत होती है ॥३॥
Footnote: ३−(यासाम्) आदरार्थं बहुवचनम्। स्त्रीणाम् (नाभिः) बन्धनम्। स्नेहः (आरेहणम्) रिह कत्थने−ल्युट्। प्रशंसनम् (हृदि) हृदये (संवननम्) संभक्तिः (कृतम्) निष्पादितम् (गावः) धेनवः (घृतस्य) आज्यादिपदार्थस्य (मातरः) निर्मात्र्यः (अमूम्) पत्नीम् (सम्) सम्यक् (वानयन्तु) दीर्घश्छान्दसः। संभजन्ताम्। सेवन्ताम् (मे) मदर्थम् ॥