Go To Mantra
Viewed 98 times

ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान्पादयस्व। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह ॥

Mantra Audio
Pad Path

ध्रुव: । अच्युत: । प्र । मृणीहि । शत्रून् । शत्रुऽयत: । अधरान् । पादयस्व । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । ध्रुवाय। ते । सम्ऽइति: : । कल्पताम् । इह ॥८८.३॥

Atharvaveda » Kand:6» Sukta:88» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

राजतिलक यज्ञ के लिये उपदेश।

Word-Meaning: - [हे राजन् !] (ध्रुवः) दृढ़ और (अच्युतः) अचल होकर तू (शत्रून्) शत्रुओं को (प्र मृणीहि) नाश कर दे और (शत्रूयतः) शत्रुसमान आचरण करनेवाले (अधरान्) नीचों को (पादयस्व) अपने पैर से दाब दे। (इह) यहाँ पर (ध्रुवायते) तुझ निश्चलस्वभाव के लिये (सध्रीचीः) साथ-साथ रहनेवाली (सर्वाः) सब (दिशः) दिशायें (संमनसः) एकमनवाली हों, और (समितिः) यह सभा (कल्पताम्) समर्थ होवे ॥३॥
Connotation: - शूरवीर प्रतापी राजा सब विरोधी दुष्कर्मियों को नाश करके सब देशों की प्रजाओं को वश में रख कर अपनी राजसभा को प्रबल बनावे ॥३॥
Footnote: ३−(ध्रुवः) दृढः (अच्युतः) अचलः (प्र मृणीहि) मृञ् हिंसायाम्। सर्वथा नाशय (शत्रून्) शातयितॄन्। अरीन् (शत्रूयतः) अ० ३।१।३। शत्रु-क्यच् शत्रुवदाचरतः (अधरान्) नीचजनान् (पादयस्व) प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च। गणसूत्रं सिद्धान्तकौमुद्यां चुरादिप्रकरणे। इति पाद−धात्वर्थे णिच्। स्वपादाभ्यां निक्षिप (सर्वाः) प्राच्यादयः (दिशः) दिशाः। तत्रस्थाः प्राणिन इत्यर्थः (समनसः) समानमनस्काः (सध्रीचीः) अ० ३।३०।५। सह+अञ्चु गतौ−क्विन्, सहस्य सध्रि, ङीप् पूर्वसवर्णदीर्घश्च। सध्रीच्यः। सहाञ्चनशीलाः। सहवर्तमानाः (ध्रुवाय) दृढस्वभावाय (ते) तुभ्यम् (समितिः) इयं राजसभा (कल्पताम्) समर्था भवतु (इह) अस्मिन् राज्ये ॥