Go To Mantra
Viewed 121 times

आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

Mantra Audio
Pad Path

आ ।त्वा । अहार्षम् । अन्त: । अभू: । ध्रुव: । तिष्ठ । अविऽचाचलत् । विश: । त्वा । सर्वा: । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥८७.१॥

Atharvaveda » Kand:6» Sukta:87» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

राजतिलक यज्ञ के लिये उपदेश।

Word-Meaning: - [हे राजन् !] (त्वा) तुझको (आ=आनीय) लाकर (अहार्षम्) मैंने स्वीकार किया है। (अन्तः) सभा के मध्य (अभूः) तू वर्त्तमान हुआ है। (ध्रुवः) निश्चित बुद्धि और (अविचाचलत्) निश्चलस्वभाव होकर (तिष्ठ) स्थिर हो (सर्वाः) सब (विशः) प्रजायें (त्वा वाञ्छन्तु) तेरी कामना करें, (राष्ट्रम्) राज्य (त्वत्) तुझसे (मा अधिभ्रशत्) कभी भ्रष्ट न होवे ॥१॥
Connotation: - प्रजागण सबसे उत्तम पुरुष को राजा बना कर उपदेश करें, जिससे वह सदा धार्मिक पुरुषार्थी रहे और बुरे आचरण से राज्य नष्ट न होवे ॥१॥ यह सूक्त ऋग्वेद में है−१०।१७३।१-३। और यह मन्त्र यजुर्वेद में है−१२।—११ ॥
Footnote: १−(आ) आनीय (त्वा) त्वां राजानम् (अहार्षम्) स्वीकृतवानस्मि (अन्तः) सभामध्ये (अभूः) विराजमानोऽभवः (ध्रुवः) स्रुवः क। उ० २।६१। इति ध्रु स्थैर्य्ये−क। निश्चितबुद्धिः (तिष्ठ) स्थिरो भव (अविचाचलत्) चल गतौ−यङ्लुगन्तात्, शतृ। नाभ्यस्ताच्छतुः। पा–० ७।१।७८। इति नुम्प्रतिषेधः। निश्चलस्वभावः (विशः) प्रजाः। मनुष्याः−निघ० २।३। (सर्वाः) अखिलाः (त्वा) (वाञ्छन्तु) वाछि इच्छायाम्। कामयन्तु (त्वत्) त्वत्तः (राष्ट्रम्) राज्यम् (अधि) अधिकम्। कदापि (मा भ्रशत्) भ्रशु अधःपतने माङि लुङि पुषादित्वात् च्लेरङादेशः। मा नष्टं स्यात् ॥