Go To Mantra

अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे। अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥

Mantra Audio
Pad Path

अग्ने: । साम्ऽतपनस्य । अहम् । आयुषे । पदम् । आ । रभे । अध्दाति: । यस्य । पश्यति । धूमम् । उत्ऽयन्तम् । आस्यत: ॥७६.२॥

Atharvaveda » Kand:6» Sukta:76» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु बढ़ाने के लिये उपदेश।

Word-Meaning: - (अहम्) मैं (सांतपनस्य) ताप गुणवाले (अग्ने) उस अग्नि के (पदम्) प्राप्तियोग्य गुण को (आयुषे) आयु बढ़ाने के लिये (आरभे) प्रस्तुत करता हूँ, (यस्य) जिस [अग्नि] के (आस्यतः) मुख से (उद्यन्तम्) निकलते हुए (धूमम्) धूएँ को (अद्धातिः) सत्य जाननेवाला पुरुष (पश्यति) देखता है ॥२॥
Connotation: - जो मनुष्य शरीरस्थ अग्नि और प्रत्यक्ष अग्नि के गुण जान कर शारीरिक बल बढ़ाते और अस्त्र-शस्त्र आदि कलायन्त्रों में उसका प्रयोग करते हैं, वे सुखवृद्धि करके अपना जीवन बढ़ाते हैं ॥२॥
Footnote: २−(अग्नेः) सूर्यविद्युदादिरूपस्य (सांतपनस्य) संतपन−अण्। सम्यक् तपनयुक्तस्य (अहम्) शिल्पी (आयुषे) जीवनवर्धनाय (पदम्) प्रापणीयं गुणम् (आ रभे) उपक्रमे (अद्धातिः) अद्धा−अतिः। अत सातत्यगमने−क्विप्+धाञ् धारणे−क्विप्। अतं सततं गमनं ज्ञानं दधातीति अद्धा सत्यम्+अत सातत्यगमने−इन्। सत्यमतति गच्छति जानातीति। सत्यज्ञाता। मेधावी−निघ० ३।१५। (यस्य) अग्नेः (पश्यति) साक्षात्करोति (धूमम्) इषियुधीन्धि०। उ० १।१४५। इति धूञ् कम्पने−मक्। अग्निनार्द्रकाष्ठजातं पदार्थम् (उद्यन्तम्) उद्गच्छन्तम् (आस्यतः) अग्निमुखात् ॥