Go To Mantra

सं वः॑ पृच्यन्तां त॒न्वः सं मनां॑सि॒ समु॑ व्र॒ता। सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥

Mantra Audio
Pad Path

सम् । व: । पृच्यन्ताम् । तन्व: । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । व: । अयम् । ब्रह्मण: । पति: । भग: । सम् । व: । अजीगमत् ॥७४.१॥

Atharvaveda » Kand:6» Sukta:74» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

एकमता के लिये उपदेश।

Word-Meaning: - [हे विद्वानों !] (वः) तुम्हारी (तन्वः) विस्तृत विद्यायें (सम्) यथावत् (मनांसि) मननसामर्थ्य (सम्) यथावत् (उ) और (व्रता) सब कर्म (सम्) यथावत् (पृच्यन्ताम्) मिले रहें। (अयम्) इस (ब्रह्मणः) ब्रह्माण्ड के (पतिः) पति (भगः) भगवान् [ऐश्वर्यवान् परमेश्वर] ने (वः) तुमको (वः) तुम्हारे हित के लिये (सम्) यथावत् (सम् अजीगमत्) मिलाया है ॥१॥
Connotation: - मनुष्य परस्पर मिल कर उत्तम विद्यायें, उत्तम विचार, और उत्तम कर्म प्राप्त करके सुख भोगें। यह परमेश्वरकृत नियम है ॥१॥
Footnote: १−(सम्) सम्यक् यथावत् (वः) युष्माकम् (पृच्यन्ताम्) पृची सम्पर्के−कर्मणि लोट्। संमिल्यन्ताम् (तन्वः) अ० १।१। विस्तृतविद्याः−दयानन्दभाष्ये यजु० १९।४४। (सम्) (मनांसि) मननानि (सम्) (उ) अपि (व्रतानि) वरणीयानि कर्माणि (सम्) (वः) युष्मान् (अयम्) सर्वव्यापकः (ब्रह्मणः) बृहतो जगतः। अन्नस्य−निघ० २।७। (पतिः) रक्षकः (भगवान्) ऐश्वर्यवान् परमेश्वरः (वः) युष्मदर्थम् (सम् अजीगमत्) अ० ६।३२।२। संगतान् कृतवान् ॥