Go To Mantra
Viewed 174 times

याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

Mantra Audio
Pad Path

यावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥

Atharvaveda » Kand:6» Sukta:72» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

राज्य बढ़ाने का उपदेश।

Word-Meaning: - (यावदङ्गीनम्) जितने अङ्ग हैं उनसे सिद्ध, (पारस्वतम्) पालनसमर्थ पुरुषों से सिद्ध, (च) और (गार्दभम्) [बोझ उठानेवाले] गदहों से सिद्ध, (यत्) जितना राज्य है। और (यावत्) जितना (वाजिनः) अन्नयुक्त (अश्वस्य) बलवान् पुरुष [राज्य] का है, (तावत्) उतना (ते) तेरा (पसः) राज्य (वर्धताम्) बढ़े ॥३॥
Connotation: - जिस राज्य में सब राज्य के अङ्ग, अर्थात्, १−राजा, २−मन्त्री, ३−मित्र, ४−कोश, ५−राज्यप्रबन्ध, ६−गढ़, ७−सेना, देखो अमर १८।१७, १८, प्रजापालक अधिकारी और हस्ती गर्दभ आदि पशु और अन्न और बलवान् राजा होते हैं, वहाँ अनेक प्रकार से वृद्धि होती है, वैसे ही सब मनुष्यों को वृद्धि करनी चाहिये ॥३॥ इति सप्तमोऽनुवाकः ॥
Footnote: ३−(यावदङ्गीनम्) तेन निर्वृत्तम्। ४।२।६८। इति−ख। यावन्ति अङ्गानि तावद्भिर्निर्वृत्तं सिद्धम्, तानि यथा। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः। इत्यमरः, १८।१७, १८। (पारस्वतम्) परस्वत्−अण्। परस्वद्भिः पालनसमर्थैः पुरुषैर्निर्वृत्तम् (हास्तिनम्) हस्तिन्−अण्। इनण्यनपत्ये। पा० ६।४।१६४। इति प्रकृतिभावः हस्तिभिर्निर्वृत्तं सिद्धम् (गार्दभम्) गर्दभ−अण्। गर्दभैर्वहनशीलैः पशुभिर्निर्वृत्तम् (च) (यत्) यत्प्रमाणम् (यावत्) (अश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः−क्वन्। अश्नुते व्याप्नोति कार्याणि सोऽश्वः, बलवान् पुरुषः, तस्य (वाजिनः) वाजः, अन्नम्−निघ० २।७। अन्नवतः। अन्यत्पूर्ववत् ॥