Go To Mantra

यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥

Mantra Audio
Pad Path

यथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥

Atharvaveda » Kand:6» Sukta:72» Paryayah:0» Mantra:1


Reads 79 times

PANDIT KSHEMKARANDAS TRIVEDI

राज्य बढ़ाने का उपदेश।

Word-Meaning: - (यथा) जिस प्रकार से (असितः) बन्धनरहित, स्वतन्त्र परमात्मा (वशान् अनु) अपने वशवर्त्ती प्राणियों के लिये (असुरस्य) बुद्धिमान् की (मायया) बुद्धि से (वपूंषि) अनेक शरीरों को (कृण्वन्) बनाता हुआ (प्रथयते) विस्तार करता है। (एव) वैसे ही (अयम्) यह (अर्कः) मन्त्र [विचार] (ते) तेरे (शेपः) सामर्थ्य को (सहसा) सहनशक्ति के साथ और (अङ्गम्) अङ्ग को (अङ्गेन) अङ्ग के साथ (संसमकम्) भली-भाँति संयुक्त (कृणोतु) करे ॥१॥
Connotation: - जैसे परमेश्वर ने अपनी बुद्धिमत्ता से जगत् को रचकर महा उपकार किया है, वैसे ही मनुष्य वेदों के विचार से अपनी शक्ति बढ़ा कर बढ़ती करें ॥१॥
Footnote: १−(यथा) येन प्रकारेण (असितः) अबद्धः। मुक्तस्वभावः परमेश्वरः (प्रथयते) विस्तारं करोति (वशान्) वशवर्त्तिनो जीवान् (अनु) अनुलक्ष्य (वपूंषि) शरीराणि (कृण्वन्) रचयन् (असुरस्य) अ० १।१०।१। असुरिति प्रज्ञानाम−निरु० १०।३४। रो मत्वर्थीयः। प्रज्ञावतः पुरुषस्य (मायया) अ० २।२९।६। प्रज्ञया−निघ० २।९। (एव) एवम् (ते) तव (शेपः) अ० ४।३७।७। शीङ् शयने−प। शेते, शरीरे वर्तते। सामर्थ्यम् (सहसा) षह मर्षणे−असुन्। सहनशक्त्या (अयम्) प्रसिद्धः (अर्कः) अ० ३।३।२। अर्च पूजायाम्−क। अर्को मन्त्रो भवति यदनेनार्चन्ति−निरु० ५।४। विचारः। वेदविवेकः (अङ्गेन) शरीरावयवेन (अङ्गम्) शरीरावयवम् (संसमकम्) अञ्चु गतौ याचने च−अच्। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। सम्यक् संगतम् (कृणोतु) करोतु ॥