Go To Mantra
Viewed 121 times

यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ हिर॑ण्य॒मश्व॑मु॒त गाम॒जामवि॑म्। यदे॒व किं च॑ प्रतिज॒ग्रहा॒हम॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥

Mantra Audio
Pad Path

यत् । अन्नम् । अद्मि । बहुऽधा । विऽरूपम् । हिरण्यम् । अश्वम् । उत । गाम् । अजाम् । अविम्। यत् । एव । किम् । च । प्रतिऽजग्रह । अहम् । अग्नि: । तत् । होता । सुऽहुतम् । कृणोतु ॥७१.१॥

Atharvaveda » Kand:6» Sukta:71» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

दोषों के नाश का उपदेश।

Word-Meaning: - (विरूपम्) अनेक रूपवाला (यत्) जो कुछ (अन्नम्) अन्न (बहुधा) प्रायः (अद्मि) मैं खाता हूँ, (उत) और (हिरण्यम्) सुवर्ण, (अश्वम्) घोड़ा, (गाम्) गौ, (अजाम्) बकरी, (अविम्) भेड़, और (यत् एव किम् च) जो कुछ भी (अहम्) मैंने (प्रतिजग्रह) ग्रहण किया है, (होता) दाता (अग्निः) सर्वव्यापक परमेश्वर (तत्) उसको (सुहुतम्) धार्मिक रीति से स्वीकार किया हुआ (कृणोतु) करे ॥१॥
Connotation: - जो मनुष्य ज्ञानपूर्वक परमेश्वर को आत्मसमर्पण करते हैं, वे सुखी होते हैं ॥१॥
Footnote: १−(यत्) (अन्नम्) भोजनम् (अद्मि) भक्षयामि (बहुधा) प्रायः (विरूपम्) विविधप्रकारम् (हिरण्यम्) सुवर्णम् (अश्वम्) तुरङ्गम् (गाम्) धेनुम् (अजाम्) छागीम् (अविम्) मेषम् (यत् एव किम् च) यत्किमपि द्रव्यजातम् (प्रतिजग्रह) ह्रस्वत्वं छान्दसम्। प्रतिजग्राह। प्राप (अहम्) उपासकः (अग्निः) सर्वव्यापकः परमेश्वरः (तत्) सर्वं पूर्वोक्तम् (होता) दाता (सुहुतम्) हु दानादनयोः−क्त। सुष्ठु धार्मिकरीत्या गृहीतम् (कृणोतु) करोतु ॥