Go To Mantra

यथा॑ मां॒सं यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥

Mantra Audio
Pad Path

यथा । मांसम् । यथा । सुरा । यथा । अक्षा: । अधिऽदेवने । यथा । पुंस: । वृषण्यत: । स्त्रियाम् । निऽहन्यते । मन: । एव । ते । अघ्न्ये । मन: । अधि । वत्से । नि । हन्यताम् ॥७०.१॥

Atharvaveda » Kand:6» Sukta:70» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की भक्ति का उपदेश।

Word-Meaning: - (यथा) जैसे (मांसम्) ज्ञान, (यथा) जैसे (सुरा) ऐश्वर्य, (यथा) जैसे (अक्षाः) अनेक व्यवहार (अधिदेवने) बहुत व्यवहारयुक्त राजद्वार में रहते हैं। (यथा) जैसे (वृषण्यतः) अपने को ऐश्वर्यवान् माननेवाले (पुंसः) पुरुष का (मनः) मन (स्त्रियाम्) स्तुति क्रिया [वा अपनी पत्नी] में (निहन्यते) स्थिर रहता है। (एव) वैसे ही (अघ्न्ये) हे न मारने योग्य प्रजा ! (ते) तेरा (मनः) मनः (वत्से) सब में निवास करनेवाले परमेश्वर में (अधि) अच्छे प्रकार (नि हन्यताम्) दृढ़ होवे ॥१॥
Connotation: - मनुष्य परमेश्वर में दृढ़ भक्ति करके सदा आनन्द भोगे ॥१॥
Footnote: १−(यथा) येन प्रकारेण (मांसम्) अ० ४।१७।४। मन ज्ञाने−स प्रत्ययः, दीर्घश्च। मांसं माननं वा मानसं वा मनोऽस्मिन्त्सीदतीति वा निरु० ४।३। ज्ञानम् (यथा) (सुरा) सू० ७०। म० १। ऐश्वर्यम् (यथा) (अक्षाः) अक्षू व्याप्तिसंघातयोः−अच्। यद्वा। अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ−स प्रत्ययः। व्यवहाराः (अधिदेवने) दिवु व्यवहारे−ल्युट्। अधिकव्यवहारस्थाने राजद्वारे। (पुंसः) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षणशीलस्य पुरुषस्य (वृषण्यतः) दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति। पा० ७।४।३६। इति वृषन्−क्यचि निपातितः। वृषाणम् इन्द्रम् ऐश्वर्यवन्तमात्मानमिच्छतः (स्त्रियाम्) अ० १।८।१। ष्टुञ् स्तुतौ−ड्रट्, ङीप्। स्तुतिक्रियायाम्। स्तुत्यायां पत्न्यां वा (निहन्यते) स्थाप्यते (मनः) चित्तम् (एव) एवम्। तथा (ते) तव (अघ्न्ये) अ० ३।३०।१। अघ्न्याऽहन्तव्या भवत्यघघ्नीति वा−निरु० ११।४३। हे अहन्तव्ये प्रजे (मनः) (अधि) (अधिकम्) (वत्से) अ० ३।१२।३। वृतॄवदिवचिवसि०। उ० ३।६२। इति वस निवासे−स। सर्वनिवासशीले परमेश्वरे (निहन्यताम्) दृढीक्रियताम् ॥