Go To Mantra
Viewed 127 times

आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥

Mantra Audio
Pad Path

आऽतन्वाना: । आऽयच्छन्त: । अस्यन्त: । ये । च । धावथ । नि:ऽहस्ता: । शत्रव: । स्थन । इन्द्र: । व: । अद्य । परा । अशरीत् ॥६६.२॥

Atharvaveda » Kand:6» Sukta:66» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के लक्षणों का उपदेश।

Word-Meaning: - (ये) जो तुम (आतन्वानाः) [धनुष बाण] तानते हुए (च) और (आयच्छन्तः) [तलवारें] खैंचते हुए और (अस्यन्तः) चलाते हुए (धावथ) दौड़े चले आते हो। (शत्रवः) हे शत्रुओ ! तुम सब (निर्हस्ताः) निहत्थे (स्थन) हो जाओ, (इन्द्रः) महाप्रतापी सेनापति इन्द्र ने (वः) तुम को (अद्य) आज (परा अशरीत्) मार गिराया है ॥२॥
Connotation: - युद्धकुशल सेनापति शत्रुओं के धावे को रोक कर उन्हें मार गिरावे ॥२॥
Footnote: २−(आतन्वानाः) धनूंषि बाणान् च अनुसंदधतः (आयच्छन्तः) तरवारीन् आकर्षन्तः (अस्यन्तः) निक्षिपन्तः (ये) शत्रवः (च) (धावथ) शीघ्रं गच्छथ (निर्हस्ताः) लुप्तहस्तबलाः (शत्रवः) अरयः (स्थन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस्तेर्लोटि तस्य थनादेशः। भवत (इन्द्रः) सेनापतिः (वः) युष्मान् (अद्य) अस्मिन् दिने (परा अशरीत्) शॄ हिंसायाम्−लुङ्। पराहतान् कृतवान् ॥