Go To Mantra
Viewed 109 times

इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः। जय॑न्तु॒ सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥

Mantra Audio
Pad Path

इन्द्र: । चकार । प्रथमम् । नै:ऽहस्तम् । असुरेभ्य: । जयन्तु । सत्वान: । मम ।स्थिरेण । इन्द्रेण । मेदिना ॥६५.३॥

Atharvaveda » Kand:6» Sukta:65» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के लक्षणों का उपदेश।

Word-Meaning: - (इन्द्रः) बड़े ऐश्वर्यवाले सेनापति ने (असुरेभ्यः) असुर शत्रुओं को (नैर्हस्तम्) निहत्थापन (प्रथमम्) पहिले (चकार) किया था। (स्थिरेण) स्थिर स्वभाव, (मेदिना) स्नेही (इन्द्रेण) उस बड़े सेनापति के साथ (मम) मेरे (सत्वानः) वीर लोग (जयन्तु) जीतें ॥३॥
Connotation: - जिस शूर सेनापति की सहायता से पहिले शत्रुओं को जीता है, उसकी सहायता से शत्रुओं को अब भी जीतें ॥३॥
Footnote: ३−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (चकार) कृतवान् (प्रथमम्) पूर्वस्मिन् काले (नैर्हस्तम्) भावे−अण्। निर्हस्तत्वं हस्तसामर्थ्यवैक्ल्यम् (असुरेभ्यः) देवविरुद्धेभ्यः शत्रुभ्यः (जयन्तु) अभिभवन्तु शत्रून् (सत्वानः) अ० ५।२।८। उद्योगिनो वीराः (मम) प्रजागणस्य (स्थिरेण) दृढस्वभावेन (इन्द्रेण) सेनापतिना (मेदिना) अ० ३।६।२। शमित्यष्टाभ्यो घिनुण्। पा० ३।२।१४१। इति ञिमिदा स्नेहने−घिनुण्। स्नेहिना ॥