Go To Mantra
Viewed 106 times

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥

Mantra Audio
Pad Path

मह्यम् । आप: । मधुऽमत् । आ । ईरयन्ताम् । मह्यम् । सुर: । अभरत् । ज्योतिषे । कम् । मह्यम् । देवा: । उत । विश्वे । तप:ऽजा: । मह्यम् । देव: । सविता । व्यच: । धात् ॥६१.१॥

Atharvaveda » Kand:6» Sukta:61» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की महिमा का उपदेश।

Word-Meaning: - (मह्यम्) मेरे लिये (आपः) व्यापनशील जल (मधुमत्) मधुरपन से (आ ईरयन्ताम्) आकर बहें, (मह्यम्) मेरे लिये (सूरः) लोकों को चलानेवाले सूर्य ने (ज्योतिषे) ज्योति करने को (कम्) सुख (अभरत्) धारण किया है। (उत) और (मह्यम्) मेरे लिये (तपोजाः) तप से उत्पन्न होनेवाले (विश्वे) सब (देवाः) उत्तम गुण हैं, (मह्यम्) मेरे लिये (देवः) व्यवहार में चतुर (सविता) ऐश्वर्यवान् मनुष्य ने (व्यचः) विस्तार (धात्=अधात्) धारण किया है ॥१॥
Connotation: - परमेश्वर कहता है कि संसार के सब पदार्थ मेरी आज्ञा में रहकर संसार का उपकार करते हैं ॥१॥
Footnote: १−(मह्यम्) मदर्थम्। ममाज्ञापालनायेत्यर्थः (आपः) व्याप्तिशीला जलधाराः (मधुमत्) यथा तथा माधुर्य्येण (आ) समन्तात् (ईरयन्ताम्) गच्छन्तु (मह्यम्) (सूरः) अ० ४।२।४। लोकप्रेरकः सूर्यः (अभरत्) अधरत् (ज्योतिषे) अ० १।९।१। प्रकाशदानाय (कम्) सुखम्−निघ० ३।६। (मह्यम्) (देवाः) उत्तमगुणाः (उत) अपि च (विश्वे) सब (तपोजाः) तपसः सामर्थ्याज् जाताः (मह्यम्) (देवः) व्यवहारकुशलः (सविता) ऐश्वर्यवान् मनुष्यः (व्यचः) अ० ४।१९।६। व्याप्तिम् (धात्) लुङि रूपम्। अधात्। धृतवान् ॥