Go To Mantra

अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥

Mantra Audio
Pad Path

अश्रमत् । इयम् । अर्यमन् । अन्यासाम् । समनम् । यती । अङ्गो इति । नु । अर्यमन् । अस्या: । अन्या: । समनम् । आऽअयति ॥६०.२॥

Atharvaveda » Kand:6» Sukta:60» Paryayah:0» Mantra:2


Reads 56 times

PANDIT KSHEMKARANDAS TRIVEDI

गृहस्थ आश्रम में प्रवेश का उपदेश।

Word-Meaning: - (अर्यमन्) हे शत्रुनाशक परमेश्वर ! (अन्यासाम्) दूसरी कन्याओं के (समनम्) विवाह में (यती) जाती हुई (इयम्) इस कन्या ने (अश्रमत्) तप किया है। (अङ्गो) हे (अर्यमन्) न्यायकारी परमेश्वर ! (अन्याः) दूसरी कन्यायें (अस्याः) इस कन्या के (समनम्) विवाह में (नु) अवश्य (आयति) आवें ॥२॥
Connotation: - जैसे यह कन्या अन्य कन्याओं के विवाहसंस्कार में मिलती रही है, वैसे ही अन्य कन्यायें इसके विवाह में आकर शोभा बढ़ावें ॥२॥
Footnote: २−(अश्रमत्) श्रमु तपसि खेदे च। अतपत् तपश्चर्य्यो कृतवती (इयम्) पुरोवर्तिनी (अर्यमन्) हे न्यायकारिन् परमेश्वर (अन्यासाम्) कन्यानाम् (समनम्) सम्+अन प्राणने−अच्। यद्वा। स+मनु ज्ञाने−अच्। समनाः समनसः। समनं समननाद्वा सम्माननाद्वा−निरु० ७।१७। समनं संग्रामनाम−निघ० २।१७। विवाहोत्सवम्। संग्रामम् (यती) गच्छन्ती (अङ्गो) आभिमुख्यकरणे (नु) क्षिप्रम् (अर्यमन्) (अस्याः) कन्यायाः (अन्याः) कन्याः (समनम्) (आयति) अय गतौ, एकवचनं छान्दसम्। आयन्ति। आगच्छन्ति ॥