Go To Mantra
Viewed 96 times

वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥

Mantra Audio
Pad Path

विश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥

Atharvaveda » Kand:6» Sukta:59» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

सब सुख की प्राप्ति का उपदेश।

Word-Meaning: - (विश्वरूपाम्) सबका रूप [रचना] करनेवाली, (सुभगाम्) बड़े ऐश्वर्यवाली, (जीवलाम्) जीवन देनेवाली अथवा जीवन सामर्थ्यवाली शक्ति परमात्मा को (अच्छावदामि) मैं स्वागत करके आवाहन करता हूँ। (सा) वह (रुद्रस्य) दुःखनाशक परमेश्वर की (अस्ताम्) गिराई हुई (हेतिम्) ताड़ना को (नः) हमारी (गोभ्यः) भूमियों से (दूरम्) दूर (नयतु) ले जावे ॥३॥
Connotation: - मनुष्य सर्वशक्तिमान् परमेश्वर को सर्वव्यापी जानकर पाप करके दण्डभागी न होवें ॥३॥
Footnote: ३−(विश्वरूपाम्) विश्वस्य रूपं रचनं यस्यास्ताम् जगद्रूपकर्त्रीम् (सुभगाम्) शोभनैश्वर्यवतीम् (अच्छावदामि) अच्छ सुष्ठु स्वागतेन आवदामि आह्वयामि (जीवलाम्) आतोऽनुपसर्गे कः। पा० ३।२।३। इति जीव+रा दाने−क, रस्य लत्वम्। जीवनदात्रीम्। यद्वा। सिध्मादिभ्यश्च। पा० ५।२।९७। इति जीव−मत्वर्थीयो लच्। जीवनवतीं शक्तिं परमेश्वरम् (सा) शक्तिः (नः) अस्माकम् (रुद्रस्य) अ० २।२७।६। दुःखनाशकस्य परमेश्वरस्य (अस्ताम्) असु क्षेपणे−क्त। क्षिप्ताम् (हेतिम्) ताडनाम् (दूरम्) (नयतु) गमयतु (गोभ्यः) भूमिभ्यः ॥