Go To Mantra
Viewed 116 times

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥

Mantra Audio
Pad Path

यशसम् । मा । इन्द्र: । मघऽवान् । कृणोतु । यशसम् । द्यावापृथिवी इति । उभे इति । इमे इति । यशसम् । मा । देव:। सविता । कृणोतु । प्रिय: । दातु: । दक्षिणाया: । इह । स्याम् ॥५८.१॥

Atharvaveda » Kand:6» Sukta:58» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

यश पाने के लिये उपदेश।

Word-Meaning: - (मघवान्) बड़ा धनी (इन्द्रः) परमेश्वर (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे, (इमे) यह (उभे) दोनों (द्यावापृथिवी) सूर्य और पृथिवी लोक (यशसम्) कीर्तिमान् [करें]। (देवः) व्यवहारकुशल (सविता) विद्याप्रेरक आचार्य (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे (दक्षिणायाः) दक्षिणा वा प्रतिष्ठा के (दातुः) देनेवाले राजा का (प्रियः) प्रिय (इह) यहाँ पर (स्याम्) मैं रहूँ ॥१॥
Connotation: - मनुष्य परमेश्वर की महिमा विचार कर पराक्रमपूर्वक संसार के सब पदार्थों से उपकार लेकर और सर्वप्रिय होकर कीर्ति प्राप्त करे ॥१॥
Footnote: १−(यशसम्) अर्शआदित्वाद्−अच्। यशस्विनम्। कीर्तियुक्तम् (मा) माम् (इन्द्रः) परमेश्वरः (मघवान्) मघं धनम्−निघ० २।१०। मतुप्। महाधनी (कृणोतु) करोतु (यशसम्) (द्यावापृथिवी) सूर्यभूलोकौ (उभे) (इमे) दृश्यमाने (यशसम्) (मा) (देवः) व्यवहारकुशलः (सविता) विद्याप्रेरक आचार्यः (प्रियः) प्रीतिकरः (दातुः) दानशीलस्य राज्ञः (दक्षिणायाः) दानस्य। प्रतिष्ठायाः (इह) अत्र लोके (स्याम्) भवेयम् ॥