Go To Mantra
Viewed 88 times

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात। आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

Mantra Audio
Pad Path

ग्रीष्म: । हेमन्त: । शिशिर: । वसन्त: । शरत् । वर्षा: । सुऽइते । न: । दधात । आ । न: । गोषु । भजत । आ । प्रऽजायाम् । निऽवाते । इत् । व: । शरणे । स्याम ॥५५.२॥

Atharvaveda » Kand:6» Sukta:55» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सब सम्पत्ति प्राप्ति के लिये उपदेश।

Word-Meaning: - (वसन्तः) वसन्तकाल [चैत्र, वैशाख] (ग्रीष्मः) घाम ऋतु [ज्येष्ठ, आषाढ़] (वर्षाः) बरसा [श्रावण, भाद्रमास] (शरत्) शरद् ऋतु [आश्विन, कार्तिक] (हेमन्तः) शीत काल [आग्रहायण, पौष] (शिशिरः) उतरता शीतकाल [माघ, फाल्गुन] यह तुम सब (नः) हमें (स्विते) अच्छे प्रकार प्राप्त कुशल में (दधात) स्थापित करो। (नः) हमें (गोषु) गौ आदि पशुओं में (आ) और (प्रजायाम्) प्रजा में (आ) सब ओर से (भजत) भागी करो, (वः) तुम्हारे (इत्) ही (निवाते) हिंसारहित (शरणे) शरण में (स्याम) हम रहें ॥२॥
Connotation: - मनुष्य प्रत्येक ऋतु में उचित आहार-विहार करके गौ आदि पशुओं और पुत्र पौत्र भृत्य प्रजाओं सहित सुखी रहें ॥२॥
Footnote: २−(ग्रीष्मः) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्रीभावः षुगागमश्च। निदाघः। ज्येष्ठाषाढात्मकः कालः (हेमन्तः) अ० ३।११।४। आग्रहायणपौषात्मकः कालः (शिशिरः) अजिरशिशिर०। उ० १।५३। इति शश प्लुतगतौ−किरच्, उपधाया इत्वम्। माघफाल्गुनमासात्मकशीतान्तः कालः (वसन्तः) अ० ३।११।४। चैत्रवैशाखात्मकः पुष्पकालः (शरत्) अ० १।१०।२। आश्विनकार्तिकात्मकः कालः (वर्षाः) वर्ष वर्षणमस्त्यासु। वर्ष−अर्शआदिभ्योऽच्, टाप्। यद्वा। व्रियन्ते। वृतॄवदि०। उ० ३।६२। इति वृञ् वरणे−स, टाप्। श्रावणभाद्रात्मको मेघकालः (स्विते) सुष्ठु प्राप्ते कुशले (नः) अस्मान् (दधात) धत्त। स्थापयत (आ) समुच्चये (नः) अस्मान् (गोषु) गवादिपशुषु (भजत) भागिनः कुरुत (आ) समन्तात् (प्रजायाम्) पुत्रपौत्रभृत्यादिरूपे जने (निवाते) वा गतिहिंसनयोः−क्त। अहिंसिते (इत्) एव (वः) युष्माकम् (शरणे) रक्षणे (स्याम) भवेम ॥