Go To Mantra
Viewed 164 times

द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु। अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥

Mantra Audio
Pad Path

द्यौ: । च । मे । इदम् । पृथिवी । च । प्रऽचेतसौ । शुक्र: । बृहन् । दक्षिणया । पिपर्तु । अनु । स्वधा । चिकिताम् । सोम: । अग्नि: । वायु: । न: । पातु । सविता । भग: । च ॥५३.१॥

Atharvaveda » Kand:6» Sukta:53» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

स्वास्थ्य की रक्षा का उपदेश।

Word-Meaning: - (प्रचेतसौ) उत्तम ज्ञान देनेवाले (द्यौः) आकाश (च) और (पृथिवी) पृथिवी (च) और (बृहन्) बड़ा (शुक्रः) प्रकाशमान सूर्य (मे) मेरे लिये (इदम्) इस घर को (दक्षिणया) दक्षिणा [दान वा प्रतिष्ठा] से (पिपर्तु) भरपूर करे। (सोमः) चन्द्रमा और (अग्निः) अग्नि (अनु) अनुग्रह करके (स्वधा) अन्न को (चिकिताम्) जतावे, (वायुः) वायु (च) और (सविता) सबका उत्पन्न करने हारा (भगः) ऐश्वर्यवान् परमात्मा (नः) हमारी (पातु) रक्षा करे ॥१॥
Connotation: - मनुष्यों को योग्य है कि परमेश्वररचित पदार्थों से यथावत् उपकार लेकर सदा सुखी रहें ॥१॥
Footnote: १−(द्यौः) आकाशः (च च) समुच्चये (मे) मह्यम् (इदम्) पुरोवर्ति गृहम् (पृथिवी) (च) (प्रचेतसौ) प्रचेतः प्रज्ञानं याभ्यां सकाशात् ते। प्रकृष्टज्ञानदात्र्यौ (शुक्रः) शोचमानो दीप्यमानः सूर्य्यः (बृहन्) महान् (दक्षिणया) अ० ५।७।१। दानेन। प्रतिष्ठया (पिपर्तु) प्रपूरयतु (अनु) अनुग्रहेण (स्वधा) अन्नम् (चिकिताम्) कित ज्ञाने−अन्तर्गतण्यर्थः। ज्ञापयतु (अग्निः) पावकः (वायुः) पवनः (नः) अस्मान् (पातु) रक्षतु (सविता) सर्वोत्पादकः (भगः) भगमैश्वर्यं यस्य सः। भगवान् परमेश्वरः (च) ॥