Go To Mantra
Viewed 85 times

आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥

Mantra Audio
Pad Path

आयु:ऽददम् । विप:ऽचितम् । श्रुताम् । कण्वस्य । वीरुधम् । आ । अभारिषम् । विश्वऽभेषजीम् । अस्य । अदृष्टान् । नि । शमयत् ॥५२.३॥

Atharvaveda » Kand:6» Sukta:52» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा के दोष के नाश का उपदेश।

Word-Meaning: - (कण्वस्य) बुद्धिमान् पुरुष की (आयुर्ददम्) जीवन देनेवाली, (विपश्चितम्) भले प्रकार चेतानेवाली, (श्रुताम्) प्रसिद्ध, (वीरुधम्) विविध प्रकार प्रगट होनेवाली, (विश्वभेषजीम्) संसार का भय जीतनेवाली वेदविद्या को (आ अभारिषम्) मैंने पाया है, वह (अस्य) इस पुरुष के (अदृष्टान्) न दीखते हुए दोषों को (नि शमयत्) शान्त कर देवे ॥३॥
Connotation: - मनुष्य सर्वसुखदायक वेदविद्या द्वारा अपने सब कुसंस्कारों का नाश करके आनन्द भोगें ॥३॥
Footnote: ३−(आयुर्ददम्) दद दाने−क्विप्। उत्कृष्टजीवनस्य दात्रीम् (विपश्चितम्) वि+प्र+चिती संज्ञाने−क्विप्, पृषोदरादिरूपम्। विविधं प्रकृष्टं ज्ञापयित्रीम् (श्रुताम्) प्रसिद्धाम् (कण्वस्य) अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे−क्वन्। मेधाविनः पुरुषस्य−निघ० ३।१५। (वीरुधम्) विविधं प्रादुर्भवित्रीम् (आ अभारिषम्) हृञ् प्रापणे, हस्य भत्वम् आहार्षम्। प्राप्तवानस्मि (विश्वभेषजीम्) सर्वस्य भयस्य शमनी वेदविद्याम् (अस्य) पुरुषस्य (अदृष्टान्) अलक्षितान् दोषान् कुसंस्कारान् (नि शमयत्) शम उपशमने, ण्यन्ताल्लेटि अडागमः। निशमयतु ॥