Go To Mantra
Viewed 97 times

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒श्चर॑न्ति। अचि॑त्त्या॒ चेत्तव॒ धर्मं॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥

Mantra Audio
Pad Path

यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्या: । चरन्ति । अचित्त्या । च । इत् । तव । धर्म । युयोपिम । मा । न: । तस्मात् । एनस: । देव । रीरिष: ॥५१.३॥

Atharvaveda » Kand:6» Sukta:51» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

द्रोह के नाश का उपदेश।

Word-Meaning: - (वरुण) हे अति उत्तम परमेश्वर ! (मनुष्याः) मनुष्य (इदम्) यह (यत् किम् च) जो कुछ भी (अभिद्रोहम्) अपकार (दैव्ये) विद्वानों के बीच विद्वान् (जने) मनुष्य पर (चरन्ति) करते हैं। (च) और (इत्) भी (अचित्त्या) अचेतनपन से (तव) तेरे (धर्म्म) धर्म को (युयोपिम) हमने तोड़ा है, (देव) हे प्रकाशमय परमात्मन् ! (नः) हमें (तस्मात्) उस (एनसः) पाप से (मा रीरिषः) मत नष्ट कर ॥३॥
Connotation: - यदि मनुष्य अज्ञान से कोई पाप कर्म करें तो वे दण्डरूप प्रायश्चित्त, अनुताप आदि करके धर्म आचरण में सदा प्रवृत्त रहें ॥३॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ७।८९।५। इति पञ्चमोऽनुवाकः ॥
Footnote: ३−(यत्) (किम् च इदम्) किञ्चिदपि (वरुण) हे अत्युत्तम परमेश्वर (दैव्ये) अ० २।२।२। देवेषु विद्वत्सु जाते विदुषि (जने) मनुष्ये (अभिद्रोहम्) अपराधम् (मनुष्याः) पुरुषाः (चरन्ति) अनुतिष्ठन्ति (अचित्त्या) अ० ५।१७।१२। अज्ञानेन (च) (इत्) अपि (धर्म) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धृ धारणे−मनिन्। धारणसामर्थ्यम्। नियमम् (युयोपिम) युप विमोहने−लिट्। विमोहितवन्तः। नाशितवन्तः (न) अस्मान् (तस्मात्) (एनसः) अ० २।१०।८। पापात् (देव) हे प्रकाशमय परमात्मन् (मा रीरिषः) रिष हिंसायाम्, ण्यन्ताद् माङि लुङि चङि रूपम्। मा हिंसीः ॥