Go To Mantra
Viewed 87 times

ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥

Mantra Audio
Pad Path

हतम् । तर्दम् । सम्ऽअङ्कम् । आखुम् । अश्विना । छिन्तम् । शिर: । अपि । पृष्टी: । शृणीतम् । यवान् । न । इत् । अदान् । अपि । नह्यतम्। मुखम् । अथ । अभयम् । कृणुतम् । धान्याय ॥५०.१॥

Atharvaveda » Kand:6» Sukta:50» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा के दोष निवारण का उपदेश।

Word-Meaning: - (अश्विना) हे कामों मे व्याप्त रहनेवाले स्त्री-पुरुषो ! (तर्दम्) हिंसा करनेवाले कौवे आदि को, (समङ्कम्) पृथिवी में अङ्क करनेवाले शूकर आदि को और (प्राखुम्) कुतरनेवाले चूहे आदि को (हतम्) तुम मारो, (शिरः) उनका शिर (छिन्तम्) काटो और (पृष्टीः) पसलियाँ (अपि) भी (शृणीतम्) तोड़ो। वे (यवान्) यवादि अन्नों को (न इत्) कभी न (अदान्) खावें, (मुखम्) उनका मुख (अपि) भी (नह्यतम्) तुम बाँधो, (अथ) और (धान्याय) धान्य के लिये (अभयम्) अभय (कृणुतम्) करो ॥१॥
Connotation: - जैसे किसान लोग हानिकारक पक्षी पशु आदि से खेती की रक्षा करके धान्य प्राप्त करते हैं, वैसे ही विद्वान् स्त्री-पुरुष काम क्रोध आदि शत्रुओं से अपनी रक्षा करके सुख भोगें ॥१॥
Footnote: १−(हतम्) हन्तेर्लोट्। युवां नाशयतम् (तर्दम्) तर्द हिंसायाम्−अच्। हिंसकं काकादिकम् (समङ्कम्), अकि लक्षणे−अच्। भूमौ अङ्कनशीलं शूकरादिकम् (आखुम्) आड्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति आङ्+खनु अवदारणे−उ, स च डित्। खननशीलमूषकादिकम् (अश्विना) अ० २।२९।६। अश्विनौ। हे कर्मसु व्यापनशीलौ स्त्रीपुरुषौ (छिन्तम्) भिन्तम् (शिरः) ललाटम् (अपि) (पृष्टीः) अ० २।७।५। पार्श्वास्थीनि (शृणीतम्) हिंस्तं चुर्णीकुरुतम् (यवान्) यवाद्यन्नानि (न इत्) नैव (अदान्) अद भक्षणे−लेट्। भक्षयेयुः (अपि) (नह्यतम्) बध्नीतम् (मुखम्) (अथ) अनन्तरम् (अभयम्) भयराहित्यं कुशलम् (कृणुतम्) कुरुतम् (धान्याय) अन्नवर्धनाय ॥