Go To Mantra
Viewed 91 times

अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु। अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥

Mantra Audio
Pad Path

अस्मै । ग्रामाय । प्रऽद‍िश: । चतस्र: । ऊर्जम् । सुऽभूतम् । स्वस्ति । सविता । न: । कृणोतु । अशत्रु । इन्द्र: । अभयम् । न: । कृणोतु । अन्यत्र । राज्ञाम् । अभि । यातु । मन्यु:॥४०.२॥

Atharvaveda » Kand:6» Sukta:40» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं से रक्षा के लिये उपदेश।

Word-Meaning: - (सविता) सबका चलानेवाला परमेश्वर (अस्मै) इस (ग्रामाय) गाँव के लिये और (नः) हमारे लिये (चतस्रः) चारों (प्रदिशः) दिशाओं में (ऊर्जम्) पराक्रम, (सुभूतम्) बहुत धन और (स्वस्ति) कल्याण (कृणोतु) करे। (इन्द्रः) बड़े ऐश्वर्यवाला परमात्मा (नः) हमारे लिये (अशत्रु) निर्वैर (अभयम्) अभय (कृणोतु) करे, (राज्ञाम्) राजाओं का (मन्युः) क्रोध (अन्यत्र) औरों पर (अभि यातु) चला जावे ॥२॥
Connotation: - मनुष्य धर्मपूर्वक उत्तम-उत्तम पदार्थ प्राप्त करके शान्तचित्त रहें और ऐसे शुभ कर्म करें, जिससे राजपुरुष उनसे सदा प्रसन्न रहें ॥२॥
Footnote: २−(अस्मै) समीपस्थाय (ग्रामाय) जनसमूहाय (प्रदिशः) अत्यन्तसंयोगे द्वितीया। प्राच्यादिदिशाः प्रति (चतस्रः) चतुःसंख्यकाः (ऊर्जम्) पराक्रमम् (सुभूतम्) अ० १।३१।३। सुभूतिम्। प्रभूतं धनम् (स्वस्ति) क्षेमम् (सविता) सर्वप्रेरकः परमेश्वरः (नः) अस्मभ्यं च (कृणोतु) करोतु (अशत्रु) शत्रुरहितम् (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (अभयम्) भयराहित्यम्। शान्तिम् (नः) (कृणोतु) (अन्यत्र) अन्येषु शत्रुषु (राज्ञाम्) शासकानाम् (अभि) (यातु) प्राप्नोतु (मन्युः) क्रोधः ॥