Go To Mantra
Viewed 96 times

अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नोऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु। अभ॑यं नोऽस्तू॒र्वन्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥

Mantra Audio
Pad Path

अभयम् । द्यावापृथिवी इति । इह । अस्तु । न: । अभयम् । सोम: । सविता । न: । कृणोतु । अभयम् ॥ न: । अस्तु। उरु । अन्तरिक्षम् । सप्तऽऋषीणाम् । च । हविषा । अभयम् । न: । अस्तु ॥४०.१॥

Atharvaveda » Kand:6» Sukta:40» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं से रक्षा के लिये उपदेश।

Word-Meaning: - (द्यावापृथिवी) हे सूर्य और पृथिवी ! (इह) यहाँ पर (नः) हमारे लिये (अभयम्) अभय (अस्तु) होवे, (सोमः) बड़े ऐश्वर्यवाला (सविता) सब का उत्पन्न करनेवाला परमेश्वर (नः) हमारे लिये (अभयम्) अभय (कृणोतु) करे। (उरु) बड़ा (अन्तरिक्षम्) अन्तरिक्ष (नः) हमारे लिये (अभयम्) अभय (अस्तु) होवे, (च) और (सप्तऋषीणाम्) सात व्यापनशीलों वा दर्शनशीलों के [अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन, और बुद्धि, अथवा दो कान, दो नथने, दो आँख, और मुख इन सात छिद्रों के] (हविषा) ठीक-ठीक दान और ग्रहण से (नः) हमारे लिये (अभयम्) अभय (अस्तु) होवे ॥१॥
Connotation: - मनुष्य प्रयत्न करे कि संसार के सब पदार्थ और अपने शरीर के सब अवयव यथावत् उपकार करके शान्तिप्रद होवें ॥१॥
Footnote: १−(अभयम्) भयराहित्यम् (द्यावापृथिवी) हे सूर्यभूलोकौ (इह) अत्र (अस्तु) (नः) अस्मभ्यम् (अभयम्) (सोमः) परमैश्वर्यवान् (सविता) सर्वोत्पादको जगदीश्वरः (नः) (कृणोतु) करोतु (अभयम्) भयरहितम्। शान्तम् (नः) (अस्तु) (उरु) विस्तीर्णम् (अन्तरिक्षम्) आकाशम् (सप्तऋषीणाम्) अ० ४।११।९। त्वक्चक्षुश्रवणरसनाघ्राणमनोबुद्धीनाम्। अथवा, शीर्षण्यानां सप्तच्छिद्राणाम् (च) (हविषा) यथावद् दानेन ग्रहणेन च (अभयम्) (नः) (अस्तु) ॥