Go To Mantra
Viewed 98 times

अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम। स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥

Mantra Audio
Pad Path

अच्छ। न: । इन्द्रम् । यशसम् ।यश:ऽभि: ।यशस्विनम् । नमसाना: । विधेम । स: । न: । रास्व । राष्ट्रम् । इन्द्रऽजूतम् । तस्य । ते । रातौ । यशस: । स्याम ॥३९.२॥

Atharvaveda » Kand:6» Sukta:39» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

यश पाने का उपदेश।

Word-Meaning: - (यशसम्) यशस्वी, (यशोभिः) अपनी व्याप्तियों से (यशस्विनम्) बड़े कीर्तिवाले (इन्द्रम्) सम्पूर्ण ऐश्वर्यवाले परमेश्वर को (नमसानाः) नमस्कार करते हुए हम (नः) अपने लिये (अच्छ) अच्छे प्रकार (विधेम) पूजें। (सः) वह तू (इन्द्रजूतम्) तुझ परमेश्वर से भेजा हुआ (राष्ट्रम्) राज्य (नः) हमें (रास्व) दे, (तस्य ते) उस तेरे (रातौ) दान में हम लोग (यशसा) यशस्वी (स्याम) होवें ॥२॥
Connotation: - जो मनुष्य परमेश्वर की प्रार्थना और उपासना करके पुरुषार्थ करते हैं, वे संसार में कीर्ति पाते हैं ॥२॥
Footnote: २−(अच्छ) सुष्ठु (नः) अस्मभ्यम्। स्वहिताय (इन्द्रम्) परमेश्वरम् (यशसम्) सुप आत्मनः क्यच्। पा० ३।१।८। इति यशः शब्दात्−क्यच्, क्विपि। अलोपयलोपौ। आत्मनो यश इच्छन्तम् (यशोभिः) अशेर्देवने युट् च। उ० ४।१९१। इति अशू व्याप्तौ−असुन्, युट् च धातोः। व्याप्तिभिः (यशस्विनम्) कीर्त्तिमन्तम् (नमसानाः) पूर्ववद् यशस्यतेः क्विपि शानच्। आत्मनेपदं छान्दसम्। नमस्यन्तः (विधेम) परिचरेम (सः) स त्वम् (नः) अस्मभ्यम् (रास्व) रासृ दाने। देहि (राष्ट्रम्) राज्यम् (इन्द्रजूतम्) परमेश्वरेण त्वया प्रेरितम् (तस्य) प्रसिद्धस्य (ते) तव (रातौ) दाने (यशसः) आत्मनो यश इच्छन्तः (स्याम) भवेम ॥