Viewed 83 times
यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्। शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥
Pad Path
य: । न: । शपात् । अशपत: । शपत: ।य: । च । न: । शपात् । शुने । पेष्ट्रम्ऽइव । अवऽक्षामम् । तम् । प्रति । अस्यामि । मृत्यवे ॥३७.३॥
Atharvaveda » Kand:6» Sukta:37» Paryayah:0» Mantra:3
PANDIT KSHEMKARANDAS TRIVEDI
कुवचन के त्याग का उपदेश।
Word-Meaning: - (यः) जो (अशपतः) न शाप देनेवाले (नः) हम लोगों को (शपात्) शाप देवे, (च) और (यः) जो (शपतः) शाप देनेवाले (नः) हम लोगों को (शपात्) शाप देवे। (अवक्षामम् तम्) उस निर्बल को (मृत्यवे) मृत्यु के सामने (प्रति अस्यामि) मैं फैंके देता हूँ (इव) जैसे (पेष्ट्रम्) रोटी का टुकड़ा (शुने) कुत्ते के सामने ॥३॥
Connotation: - जो अधर्मी धर्म्मात्माओं में दोष लगावें राजा उसको यथोचित दण्ड देवे ॥३॥
Footnote: ३−(यः) कुभाषणशीलः (नः) अस्मान् (शपात्) शपेत्। पुरुषं भाषयेत् (अशपतः) अशापितः (शपतः) शापकारिणः (यः) (च) (नः) (शपात्) (शुने) कुक्कुराय (पेष्ट्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति पिष्लृ संचूर्णने−ष्ट्रन्। रोटिकाखण्डम् (इव) यथा (अवक्षामम्) क्षायो मः। पा० ८।२।५३। इति क्षै क्षये−निष्ठातकारस्य मः। अवक्षीणां दुर्बलम् (तम्) शप्तारम् (प्रति) प्रत्यक्षम् (अस्यामि) क्षिपामि (मृत्यवे) मरणाय ॥
