Viewed 97 times
उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्। श॒प्तार॑मन्वि॒च्छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ॥
Pad Path
उप । प्र । अगात् । सहस्रऽअक्ष: । युक्त्वा । शपथ: । रथम् । शप्तारम् । अनुऽइच्छन् । मम । वृक:ऽइव । अविऽमत: । गृहम् ॥३७.१॥
Atharvaveda » Kand:6» Sukta:37» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
कुवचन के त्याग का उपदेश।
Word-Meaning: - (सहस्राक्षः) सहस्रों व्यवहार में दृष्टिवाला (शपथः) शान्तिपथ बतानेवाला (रथम्) रथ को (युक्त्वा) जीत कर (मम) मेरे (शप्तारम्) कुवचन बोलनेवाले को (अन्विच्छन्) ढूँढता हुआ (उप) समीप (प्र अगात्) आया है, (इव) जैसे (वृकः) भेड़िया (अविमतः) भेड़वाले के (गृहम्) घर में [आता है] ॥१॥
Connotation: - राजा बहुदर्शी होकर कुवचनभाषियों को दण्ड देता रहे ॥१॥
Footnote: १−(उप) समीपे (प्र) प्रकर्षेण (अगात्) आगतवान् (सहस्राक्षः) अ० ३।११।३। सहस्रेषु व्यवहारेषु अक्षि दृष्टिर्यस्य सः। बहुदर्शी (युक्त्वा) संयोज्य (शपथः) अ० २।७।२। शम् शान्तिकरणे−ड+पथ गतौ−अच्। शस्य मङ्गलस्य पथो यस्मात् सः। शान्तिमार्गदर्शकः (रथम्) यानम् (शप्तारम्) शापकारिणम्। कुवचनभाषिणम् (अन्विच्छन्) अनुसृत्य गच्छन् (मम) (वृकः) हिंस्रजन्तुविशेषः (इव) यथा (अविमतः) अवीनां मेषाणां स्वामिनः पुरुषस्य (गृहम्) गेहम् ॥
