Go To Mantra
Viewed 92 times

यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः॑। इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ॥

Mantra Audio
Pad Path

यस्य । इदम् । आ । रज: । युज: । तुजे । जना:। वनम् । स्व: । इन्द्रस्य । रन्त्यम् । बृहत् ॥३३.१॥

Atharvaveda » Kand:6» Sukta:33» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

सर्व लक्ष्मी पाने को उपदेश।

Word-Meaning: - (यस्य) जिस (युजः) संयोग करनेवाले परमेश्वर के (तुजे) बल में (इदम्) यह (रजः) तोक, (जनाः) सब मनुष्य, (वनम्) जल (आ) और (स्वः) सूर्य्य है, (इन्द्रस्य) उस बड़े ऐश्वर्यवाले जगदीश्वर का (रन्त्यम्) क्रीड़ा स्थान (बृहत्) बड़ा है ॥१॥
Connotation: - जिस परमात्मा की शक्ति में यह सब संसार है, उसकी महिमा मनुष्य की समझ से बाहर है ॥१॥
Footnote: १−(यस्य) (इदम्) पुरोगतम् (आ) चार्थे (रजः) लोकः (युजः) ऋत्विग्दधृक्। पा० ३।२।५९। इति युजिर् योगे−क्विन्। संयोजकस्य परमेश्वरस्य (तुजे) तुज चुरा० बले−क। बले (जनाः) मनुष्याः (वनम्) उदकम्−निघ० १।१२। (स्वः) अ० २।५।२। सु+ऋ गतौ−विच्। सूर्यः। आदित्यः (इन्द्रस्य) परमैश्वर्यवत परमात्मनः (रन्त्यम्) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रमु क्रीडायाम् क्तिच्। न क्तिचि दीर्घश्च। पा० ६।४।३९। इति अनुनासिकलोपदीर्घयोरभावः। तत्र भवः पा० ४।३।५३। इति यत्। क्रीडाभवं रमणस्थानम् (बृहत्) महत् ॥