Go To Mantra
Viewed 102 times

दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः। इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ॥

Mantra Audio
Pad Path

देवा:। इमम् । मधुना । सऽयुतम् । यवम् । सरस्वत्याम् । अधि । मणौ। अचर्कृषु: । इन्द्र: । आसीत् । सीरऽपति: । शऽक्रतु: । कीनाशा: । आसन् । मरुत: । सुऽदानव: ॥३०.१॥

Atharvaveda » Kand:6» Sukta:30» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

विद्या के गुणों का उपदेश।

Word-Meaning: - (देवाः) विद्वान् लोगों ने (मधुना) मधुर रस वा ज्ञान से (संयुतम्) मिले हुए (इमम्) इस (यवम्) यव अन्न को (सरस्वत्याम् अधि) विज्ञान से युक्त वेदविद्या को अधिष्ठात्री मानकर (मणौ) उसके श्रेष्ठपन में (अचर्कृषुः) बार-बार जीता। (शतक्रतुः) सैकड़ों कर्म वा बुद्धिवाला (इन्द्रः) परम ऐश्वर्यवान् आचार्य (सीरपतिः) हल का स्वामी (आसीत्) था और (सुदानवः) बड़े दानी (मरुतः) विद्वान् पुरुष (कीनाशाः) परिश्रमी किसान (आसन्) थे ॥१॥
Connotation: - ब्रह्मवादी लोग आचार्य के उपदेश से वेदविद्या को प्रधान मान कर उसकी उत्तमता को खोज कर ऐसा आनन्द पाते हैं, जैसे किसान लोग अपने स्वामी की आज्ञा से विधिपूर्वक खेत में बीज बोकर अन्न प्राप्त करके प्रसन्न होते हैं ॥१॥
Footnote: १−(देवाः) विद्वांसः (इमम्) प्रत्यक्षम् (मधुना) मधुररसेन ज्ञानेन वा (संयुतम्) सम्मिलितम् (यवम्) यु मिश्रणामिश्रणयोः−अप्। यवान्नवद् मोक्षसुखम् (सरस्वत्याम् अधि) अधिरीश्वरे। पा० १।४।९७। इति अधेः कर्मप्रवचनीयत्वम्। यस्मादधिकं यस्य०। पा० ३।२।९। इति सप्तमी। विज्ञानवतीं वेदविद्यां सर्वाधिष्ठात्रीं मत्वा (मणौ) स्तुत्ये श्रेष्ठगुणे (अचर्कृषुः) कृष विलेखने यङ्लुकि लुङि। भृशं कृष्टवन्तः कर्षणेन प्राप्तवन्तः (इन्द्रः) परमैश्वर्यवान् आचार्यः (आसीत्) (सीरपतिः) हलस्य स्वामी। प्रधानकर्षकः (शतक्रतुः) क्रतुः कर्मनाम−निघ० २।१। प्रज्ञानाम्−निघ० ३।९। बहुकर्मदक्षः। बहुप्रज्ञः (कीनाशाः) अ० ३।१७।५। परिश्रमिणः कर्षकाः (आसन्) (मरुतः) अ० १।२०।१। विद्वांसः शूराः। ऋत्विजः−निघ० ३।१८। (सुदानवः) बहुदातारः ॥