Viewed 87 times
अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥
Pad Path
अन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥
Atharvaveda » Kand:6» Sukta:26» Paryayah:0» Mantra:3
PANDIT KSHEMKARANDAS TRIVEDI
कष्ट त्यागने के लिये उपदेश।
Word-Meaning: - (सहस्राक्षः) सहस्रों [दोषों] में दृष्टि रखनेवाला, (अमर्त्यः) मनुष्यों का हित न करनेवाला [विघ्न] (अस्मत्) हम से (अन्यत्र) दूसरों में (नि) नित्य (उच्यतु) प्राप्त हो। (यम्) जिसको (द्वेषाम) हम बुरा जानें, (तम्) उसको (ऋच्छतु) वह [विघ्न] प्राप्त हो। और (यम्) जिसको (उ) ही (द्विष्मः) हम बुरा जानते हैं, (तम्) उसको (इत्) ही (जहि) नाश कर ॥३॥
Connotation: - मनुष्यों को अनेक दोषों के कारण बढ़े हानिकारक विघ्न रोकते हैं, इस लिये मनुष्यों को पुरुषार्थपूर्वक विघ्न हटाना योग्य है ॥३॥
Footnote: ३−(अन्यत्र) पापात्मसु (अस्मत्) अस्मत्तः। सुकर्मभ्यः (नि) नितराम् (उच्यतु) उच समवाये। गच्छतु (सहस्राक्षः) अ० ३।११।३। सहस्रेषु बहुषु दोषेषु अक्षि दृष्टिर्यस्य सः (अमर्त्यः) तस्मै हितम्। पा० ५।१।५। इति यत्। मर्त्येभ्यो मनुष्येभ्योऽहितः (यम्) विघ्नम् (द्वेषाम) अप्रीतिं करवाम (तम्) (ऋच्छतु) प्राप्नोतु (यम्) (उ) अवधारणे (द्विष्मः) अप्रीतिं कुर्मः (तम्) (इत्) एव (जहि) नाशय ॥
