Viewed 88 times
यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्। आप॒स्तत्सर्वं॒ निष्क॑रन्भि॒षजां॒ सुभि॑षक्तमाः ॥
Pad Path
यत् । मे । अक्ष्यो: । आऽदिद्योत । पार्ष्ण्यो: । प्रऽपदो: । च । यत् । आप: । तत् । सर्वम् । नि: । करन् । भिषजाम् । सुभिषक्ऽतमा: ॥२४.२॥
Atharvaveda » Kand:6» Sukta:24» Paryayah:0» Mantra:2
PANDIT KSHEMKARANDAS TRIVEDI
ईश्वर के गुणों का उपदेश।
Word-Meaning: - (यत्) जो [दुःख] (मे) मेरे (अक्ष्योः) दोनों नेत्रों में (पार्ष्ण्योः) दोनों एड़ियों में, (च) और (यत्) जो (प्रपदो) पाँव के दोनों पञ्जों में (आदिद्योत) चमक उठा है। (भिषजाम्) वैद्यों में (सुभिषक्तमाः) अति पूजनीय वैद्य रूप (आपः) परमेश्वर की व्यापक शक्तियाँ वा जलधारायें (तत्) उस (सर्वम्) सब को (निष्करन्) हटावें ॥२॥
Connotation: - मनुष्य परमेश्वररचित पदार्थों के गुण जानकर अपना रोगनिवारण करें ॥२॥
Footnote: २−(यत्) दुःखम् (मे) मम (अक्ष्योः) अ० २।३३।१। अक्ष्णोः (आदिद्योत) द्युत दीप्तौ लिटि छान्दसं परस्मैपदम्। आदिद्युते। समन्ताद् दिदीपे (पार्ष्ण्योः) अ० २।३३।५। गुल्फस्याधोभागयोः (प्रपदोः) अ० २।३३।५। पादस्य पद्भावः। पादाग्रभागयोः (च) (यत्) (आपः) व्यापिकाः परमेश्वरशक्तयो जलधारा वा (तत्) सर्वम्। सकलं दुःखम् (निष्करन्) अ० २।९।५। लेटि रूपम्। इदुदुपधस्य०। पा० ८।३।४१। इति षत्वम्। बहिष्कुर्वन्तु (भिषजाम्) वैद्यानां मध्ये (सुभिषक्तमाः) अतिशयेन पूजनीया वैद्यरूपाः ॥
