Go To Mantra
Viewed 153 times

अ॒दो यत्ते॑ हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्। तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥

Mantra Audio
Pad Path

अद: । यत् । ते ।हृदि । श्रितम् । मन:ऽकम् । पतयिष्णुकम् । तत: । ते । ईर्ष्याम् । मुञ्चामि । नि: । ऊष्माणम् । दृंते:ऽइव ॥१८.३॥

Atharvaveda » Kand:6» Sukta:18» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ईर्ष्या के निवारण का उपदेश।

Word-Meaning: - (अदः) वह (यत्) जो (ते) तेरे (हृदि) हृदय में (श्रितम्) रक्खा हुआ (पतयिष्णुकम्) धड़कता हुआ (मनस्कम्) छोटा मन है (ततः) उससे (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (निर्मुञ्चामि) बाहिर निकालता हूँ, (इव) जैसे (दृतेः) धोंकनी से (ऊष्माणम्) श्वास को ॥३॥
Connotation: - मनुष्य कभी किसी से ईर्ष्या द्वेष न करे क्योंकि उससे मन गिर जाता है, किन्तु पुरुषार्थ से अपनी उन्नति करे ॥३॥
Footnote: ३−(अदः) तत् प्रसिद्धम् (यत्) (ते) तव (हृदि) हृदये (श्रितम्) स्थितम् (मनस्कम्) अल्पान्तःकरणम् (पतयिष्णुकम्) णेश्छन्दसि। पा० ३।२।१३७। इति पत गतौ−इष्णुच्, कन् च। इतस्ततः पतनशीलम् (ततः) तस्माद् मनसः (ते) तव (ईर्ष्याम्) म० १। मत्सरम् (मुञ्चामि) मोचयामि (निः) बहिर्भावे (ऊष्माणम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति उष दाहे−मनिन्, छान्दसो दीर्घः। वाष्पम्। अन्नः पूरितं वायुम्, (दृतेः) दृणातेर्ह्रस्वः। उ० ४।१८४। इति दॄ विदारणे−ति। चर्ममयात् पात्रात्। भस्त्रायाः सकाशात् (इव) यथा ॥