Go To Mantra
Viewed 84 times

ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्। अ॒ग्निं हृ॑द॒य्यं शोकं॒ तं ते॒ निर्वा॑पयामसि ॥

Mantra Audio
Pad Path

ईर्ष्याया: । ध्राजिम् । प्रथमाम् । प्रथमस्या: । उत । अपराम् । अग्निम् । हृदय्यम् । शोकम् । तम् । ते । नि: । वापयामसि ॥१८.१॥

Atharvaveda » Kand:6» Sukta:18» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ईर्ष्या के निवारण का उपदेश।

Word-Meaning: - [हे मनुष्य !] (ते) तेरी (ईर्ष्यायाः) डाह की (प्रथमाम्) पहिली (ध्राजिम्) गति को (उत) और (प्रथमस्याः) पहिली गति की (अपराम्) दूसरी गति को, (हृदय्यम्) हृदय में भरी (तम्) सतानेवाली (अग्निम्) अग्नि और (शोकम्) शोक को (निः) सर्वथा (वापयामसि) हम नष्ट करते हैं ॥१॥
Connotation: - मनुष्य दूसरों की वृद्धि देखकर कभी दाह न करें किन्तु दूसरे की उन्नति में अपनी उन्नति जानें ॥१॥
Footnote: १−(ईर्ष्यायाः) ईर्ष्य ईर्ष्यायाम्−अ। परसम्पत्त्यसहनस्य मत्सरस्य (ध्राजिम्) वसिवपियजि०। उ० ४।१२५। इति ध्रज गतौ−इञ्। गतिम् (प्रथमाम्) आद्याम् (प्रथमस्याः) प्रथमभाविन्या गतेः (उत) अपि च (अपराम्) अनन्तरां गतिम् (अग्निम्) संतापम् (हृदय्यम्) शरीरावयवाद् यत्। पा० ४।३।५५। इति हृदय−यत्। हृदये भवम् (शोकम्) खेदम् (तम्) तर्द−ड। तर्दकं हिंसकम् (ते) तव (निः) नितराम् (वापयामसि) टुवप बीजसंताने छेदने च। वापयामः शमयामः ॥