Go To Mantra

तौवि॑लि॒केऽवे॑ल॒यावा॒यमै॑ल॒ब ऐ॑लयीत्। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ॥

Mantra Audio
Pad Path

तौविलिके । अव । ईलय । अव । अयम् । ऐलब: । ऐलयीत् । बभ्रु: । च । बभ्रुऽकर्ण: । च । अप । इहि । नि: । आल ॥१६.३॥

Atharvaveda » Kand:6» Sukta:16» Paryayah:0» Mantra:3


Reads 77 times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के गुणों का उपदेश।

Word-Meaning: - (तौविलिके) वृद्धि से जीतनेवाले व्यवहार में [हमें] (अव) अवश्य (ईलय=ईरय) आगे बढ़ा। (अयम्) इस (ऐलबः) पृथवी के पदार्थों में व्यापक तूने [ऋषियों को] (अव) अवश्य (ऐलयीत्=०−यीः) आगे बढ़ाया है। (आल) हे समर्थ परमेश्वर ! (बभ्रुः) पोषण करनेवाला (च च) और (बभ्रुकर्णः) पोषक मनुष्यों का पतवार रूप तू (निः) नित्य (अप) आनन्द से (इहि) प्राप्त हो ॥३॥
Connotation: - मनुष्य पूर्व ऋषियों के समान परमेश्वर का सहारा लेकर सदा वृद्धि करें ॥३॥
Footnote: ३−(तौविलिके) गुपादिभ्यः कित्। उ० १।५६। इति तु गतिवृद्धिहिंसासु−इलच्। तेन दीव्यति खनति जयति जितम्। पा० ४।४।२। इति जयत्यर्थे ठक्, अजादित्वाट् टाप्। तुविलेन वृद्ध्या जयशीले व्यवहारे (अव) अवश्यम् (ईलय) ईर क्षेपे, रस्य लः। अस्मान् प्रेरय (अव) निश्चयेन (अयम्) सर्वव्यापकः (ऐलवः) इला पृथिवी−निघ० १।१। इला−अण्+वा गतिगन्धनयोः−क। इलायाः पृथिव्या इमे पदार्थास्तान् वाति गच्छति स परमेश्वरः (ऐलयीत्) ईल प्रेरणे−णिचि लुङ्, मध्यमपुरुषस्य प्रथमः। नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः। पा० ३।१।५१। इति च्लेश्चङो निषेधः। ऐलयीः। त्वं प्रेरितवानसि ऋषीन् (बभ्रुः) कुर्भ्रश्च। उ० १।२२। इति भृञ्−कु। पोषकः (च च) समुच्चये (बभ्रुकर्णः) कॄवृजॄ०। उ० ३।१०। कॄ विक्षेपे−न। बभ्रूणां पोषकाणां कर्णः अरित्रमिव पारकः (अप) आनन्दे (इहि) गच्छ (निः) निश्चयेन (आल) अल भूषणपर्याप्तिशक्तिवारणेषु−घञ्। हे शक्त, समर्थ ॥