Viewed 98 times
सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥
Pad Path
सऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । तेषाम् । सा । वृक्षाणाम्ऽइव । अहम् । भूयासम् । उत्ऽतम: ॥१५.२॥
Atharvaveda » Kand:6» Sukta:15» Paryayah:0» Mantra:2
PANDIT KSHEMKARANDAS TRIVEDI
उत्तम गुणों की प्राप्ति का उपदेश।
Word-Meaning: - (यः) जो शत्रुसमूह (सबन्धुः) बन्धुओं सहित (च च) और (असबन्धुः) बिना बन्धुओं के होकर (अस्मान्) हमें (अभिदासति) सतावे। (वृक्षाणाम्) श्रेष्ठ पदार्थों में (सा इव) लक्ष्मी के समान, (अहम्) मैं (तेषाम्) उनके बीच (उत्तमः) उत्तम (भूयासम्) हो जाऊँ ॥२॥
Connotation: - मनुष्य अपने सब प्रकार की उलझनें हटाकर विद्या सुवर्ण आदि उत्तम पदार्थ प्राप्त करे ॥२॥
Footnote: २−(सबन्धुः) बन्धुभिः सहितः (च च) समुच्चये (असबन्धुः) समानबन्धुरहितः (यः) शत्रुसमूहः (अस्मान्) धार्मिकान् (अभिदासति) अ० ४।१९।५। अभितो हिनस्ति (तेषाम्) शत्रूणाम् (सा) स्यति दारिद्र्यम्। षो अन्तकर्मणि ड, टाप्। लक्ष्मीः (वृक्षाणाम्) वरणीयानां पदार्थानाम् (इव) यथा (अहम्) (भूयासम्) (उत्तमः) श्रेष्ठः ॥
