Go To Mantra

उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

Mantra Audio
Pad Path

उत्ऽतम: । असि । ओषधीनाम् । तव । वृक्षा: । उपऽस्तय: । उपऽस्ति: । अस्तु । स: । अस्माकम् । य: । अस्मान् । अभिऽदासति ॥१५.१॥

Atharvaveda » Kand:6» Sukta:15» Paryayah:0» Mantra:1


Reads 64 times

PANDIT KSHEMKARANDAS TRIVEDI

उत्तम गुणों की प्राप्ति का उपदेश।

Word-Meaning: - [हे परमेश्वर !] (ओषधीनाम्) सब तापनाशक ओषधियों में तू (उत्तमः) उत्तम (असि) है, (वृक्षाः) सब स्वीकार करने योग्य गुण (तव) तेरे (उपस्तयः) उपासक [अधीन] हैं। (सः) वह पुरुष (अस्माकम्) हमारे (उपस्तिः) अधीन (अस्तु) होवे, (यः) जो (अस्मान्) हमें (अभिदासति) सतावे ॥१॥
Connotation: - सर्वशक्तिमान् परमेश्वर की भक्तिपूर्वक मनुष्य पुरुषार्थ करके अपने विघ्नों को मिटावे ॥१॥
Footnote: १−(उत्तमः) सर्वोत्कृष्टः (असि) (ओषधीनाम्) अ० १।३०।३। तापनाशकानां पदार्थानाम् (तव) (वृक्षाः) वृक्ष वरणे−क। वरणीयाः श्रेष्ठाः गुणाः (उपस्तयः) अ० ३।५।६। उपासकाः। वशीभूताः (उपस्तिः) उपासकः (अस्तु) (सः) शत्रुः (अस्माकम्) (यः) (अस्मान्) धार्मिकान् (अभिदासति) अ० ४।१९।५। अभितो हिनस्ति ॥