Go To Mantra
Viewed 96 times

अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑। पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥

Mantra Audio
Pad Path

अक्षिता: । ते ।उपऽसद: । अक्षिता: । सन्तु । राशय: । पृणन्त: । अक्षिता: । सन्तु । अत्तार: । सन्तु । अक्षिता: ॥१४२.३॥

Atharvaveda » Kand:6» Sukta:142» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

अन्न की वृद्धि का उपदेश।

Word-Meaning: - [हे जौ आदि अन्न !] (ते) तेरे (उपसदः) निकटवर्ती कार्यकर्ता लोग (अक्षिताः) बिना घाटे और तेरी (राशयः) रासें (अक्षिताः) बिना घाटे (सन्तु) होवें। (पृणन्तः) तेरे भरती करनेवाले लोग (अक्षिताः) बिना घाटे (सन्तु) होवें और (अत्तारः) तेरे खानेवाले (अक्षिताः) बिना हानि (सन्तु) होवें ॥३॥
Connotation: - चतुर किसानों के उद्योग से अन्न की भारी उपज होती है, लोग अन्न का व्यापार करते और भोजन करते हैं ॥३॥ इति त्रयोदशोऽनुवाकः ॥ इति पञ्चदशः प्रपाठकः ॥ इति षष्ठं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडाधिष्ठितबडोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये षष्ठं काण्डं समाप्तम् ॥
Footnote: ३−(अक्षिताः) अक्षीणाः (ते) तव (उपसदः) उपसत्तारः कर्मकराः (सन्तु) (राशयः) अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। अशू व्याप्तौ−इण्, रुट् च। धान्यपुञ्जाः (पृणन्तः) अन्नं पूरयन्तः (अत्तारः) भोक्तारः। अन्यत्पूर्ववत् ॥