Go To Mantra
Viewed 112 times

त्वं वी॒रुधां॒ श्रेष्ठ॑तमाभिश्रु॒तास्यो॑षधे। इ॒मं मे॑ अ॒द्य पुरु॑षं क्ली॒बमो॑प॒शिनं॑ कृधि ॥

Mantra Audio
Pad Path

त्वम् । वीरुधाम् । श्रेष्ठऽतमा । अभिऽश्रुता । असि । ओषधे । इमम् । मे । अद्य । पुरुषम् । क्लीबम् । ओपशिनम् । कृधि ॥१३८.१॥

Atharvaveda » Kand:6» Sukta:138» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

निर्बलता हटाने का उपदेश।

Word-Meaning: - (ओषधे) हे ओषधि ! (त्वम्) तू (वीरुधाम्) सब ओषधियों में (श्रेष्ठतमा) अति श्रेष्ठ और (अभिश्रुता) बड़ी विख्यात (असि) है। (मे) मेरे लिये (अद्य) अब (इमम्) इस (क्लीबम्) बलहीन (पुरुषम्) पुरुष को (ओपशिनम्) सब प्रकार उपयोगी (कृधि) बना ॥१॥
Connotation: - वैद्य उत्तम ओषधि द्वारा बलहीन पुरुषों को बलवान् बनावें ॥१॥
Footnote: १−(त्वम्) (वीरुधाम्) लतानां मध्ये (श्रेष्ठतमा) अतिशयेन प्रशस्या (अभिश्रुता) सर्वतः प्रख्याता (असि) (ओषधे) (इमम्) (मे) मदर्थम् (अद्य) इदानीम् (पुरुषम्) (क्लीबम्) क्लीबृ अधार्ष्ये−अच्। अधृष्टम्। निवीर्य्यम् (ओपशिनम्) आङ्+उप+शीङ् शयने−ड, इनि। ओपशः=उपशयः=उपयोगः। समन्तादुपयोगिनम्। (कृधि) कुरु ॥