Viewed 95 times
अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑। केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥
Pad Path
अभीशुना: । मेया: । आसन् । विऽआमेन । अनुऽमेया: । केशा: । नडा:ऽइव । वर्धन्ताम् । शीर्ष्ण: । ते । असिता: । परि ॥१३७.२॥
Atharvaveda » Kand:6» Sukta:137» Paryayah:0» Mantra:2
PANDIT KSHEMKARANDAS TRIVEDI
केश के बढ़ाने का उपदेश।
Word-Meaning: - (केशाः) केश (अभीशुना) अङ्गुली से (मेया) नापने योग्य, फिर (व्यामेन) दोनों [ऊपर-नीचे के] भुज दण्ड से (अनुमेया) नापने योग्य (आसन्) हो गये हैं। वे (असिताः) काले होकर (ते) तेरे (शीर्ष्णः) शिर से (नडाः इव) नरकट घास के समान (परि वर्धन्ताम्) भले प्रकार बढ़ें ॥२॥
Connotation: - केशरोगी मनुष्य वैद्य की सम्मति से रोगनिवृत्ति करे ॥२॥
Footnote: २−(अभीशुना) भृमृशीङ्०। उ० १।७। इति अभि+अशू व्याप्तौ−ड अलोपो दीर्घश्च। अभीशवः, रश्मिनाम−निघ० १।५। अङ्गुलिनाम−२।५। पदनाम−५।३। अभीशवोऽभ्यश्नुवते कर्माणि−निरु० ३।९। अङ्गुल्या (मेयाः) मातव्याः (आसन्) (व्यामेन) वि+अम गतौ−घञ्। प्रसारितभुजद्वयपरिमाणेन (अनुमेयाः) पश्चात् मातव्याः (केशाः) (नडाः) तृणविशेषाः (इव) यथा (वर्धन्ताम्) वर्धमाना भवन्तु (शीर्ष्णः) शिरसः (ते) तव (असिताः) कृष्णवर्णाः (परि) सर्वतः ॥
