Go To Mantra
Viewed 122 times

अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥

Mantra Audio
Pad Path

अयम् । वज्र: । तर्पयताम् । ऋतस्य । अव । अस्य । राष्ट्रम् । अप । हन्तु । जीवितम् । शृणातु । ग्रीवा: । प्र । शृणातु । उष्णिहा । वृत्रस्यऽइव । शचीऽपति: ॥१३४.१॥

Atharvaveda » Kand:6» Sukta:134» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं के शासन का उपदेश।

Word-Meaning: - (अयम्) यह (वज्रः) वज्र [दण्ड] (ऋतस्य) सत्य धर्म की (तर्पयताम्) तृप्ति करे, (अस्य) इस [शत्रु] के (राष्ट्रम्) राज्य को (अव=अवहत्य) नाश करके [उसके] (जीवितम्) जीवन को (अप हन्तु) नाश कर देवे, (ग्रीवाः) गले की नाड़ियों को (शृणातु) काटे और (उष्णिहा) गुद्दी की नाड़ियों को (प्रशृणातु) तोड़ डाले, (इव) जैसे (शचीपतिः) कर्म्मों वा बुद्धियों का पति [मनुष्य] (वृत्रस्य) अपने शत्रु के [ग्रीव आदि] को ॥१॥
Connotation: - राजा यथावत् शासन से शत्रुओं को नाश करके प्रजापालन करे ॥१॥
Footnote: १−(अयम्) (वज्रः) दण्डः। शासनम् (तर्पयताम्) तृप्तिं कुर्यात् (ऋतस्य) सत्यस्य धर्मस्य (अव) अवहत्य (अस्य) शत्रोः (राष्ट्रम्) राज्यम् (अपहन्तु) विनाशयतु (जीवितम्) जीवनम् (शृणातु) हिनस्तु (ग्रीवाः) अ० २।३३।२। कन्धरावयवान् (प्रशृणातु) प्रच्छिनत्तु (उष्णिहा) अ० २।३३।२। बहुवचनस्यैकवचनम्। उत्स्नाता धमनीः (वृत्रस्य) शत्रोः (इव) यथा (शचीपतिः) अ० ३।१०।१२। कर्मणां प्रज्ञानां वा पालकः पुरुषः ॥