Go To Mantra
Viewed 83 times

यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्। तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ॥

Mantra Audio
Pad Path

यत् । धावसि । त्रिऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत: । त्वम् । पुन: । आऽअयसि । पुत्राणाम् । न: । अस: । पिता ॥१३१.३॥

Atharvaveda » Kand:6» Sukta:131» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

परस्पर पालन का उपदेश।

Word-Meaning: - [हे विद्वान् !] (यत्) जो तू (त्रियोजनम्) तीन योजन, (पञ्चयोजनम्) पाँच योजन, अथवा (आश्विनम्) अश्ववार से चलने योग्य देश को (धावसि) दौड़ कर जाता है। (तत) उससे (त्वत्) तू (पुनः) फिर (आयसि) आ। और (नः) हमारे (पुत्राणाम्) पुत्र आदिकों का (पिता) पिता [पालनेवाला] (असः) हो ॥३॥
Connotation: - विद्वान् मनुष्य दूर देशों से विद्या और धन प्राप्त करके कुटुम्ब आदि का पालन करे ॥३॥
Footnote: ३−(यत्) यदि (धावसि) शीघ्रं गच्छसि (त्रियोजनम्) योजनत्रयपरिमितं देशम् (पञ्चयोजनम्) पञ्चयोजनपरिमितं देशम् (आश्विनम्) अश्विन्−अण्। अश्विना अश्ववारेण गन्तव्यं देशम् (ततः) तस्माद्देशात् (पुनः) निवृत्य (आयसि) आगच्छ (पुत्राणाम्) पुत्रादीनाम् (नः) अस्माकम् (असः) भवेः (पिता) पालकः ॥