Go To Mantra
Viewed 111 times

अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व। सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

Mantra Audio
Pad Path

अभिऽअञ्जनम् । सुरभि । सा । सम्ऽऋध्दि: । हिरण्यम् । वर्च: । तत् । ऊं इति । पूत्रिमम् । एव । सर्वा । पवित्रा । विऽतता । अधि । अस्मत् । तत्। मा । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥१२४.३॥

Atharvaveda » Kand:6» Sukta:124» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा की शुद्धि का उपदेश।

Word-Meaning: - (अभ्यञ्जनम्) तेल आदि लगाना, (सुरभिः) सुगन्ध चन्दनादि (सा समृद्धिः) वह सम्पत्ति (हिरण्यम्) सुवर्ण, (वर्चः) तेज, (तदु) वही (पवित्रमम्) पवित्रता (एव) वैसे ही है, (सर्वा) सब (पवित्रा) शोधन के साधन (अस्मद् अधि) हमारे ऊपर (वितता) फैले हुए हैं (तत्) इस लिये [हम को] (मा) न तो (निर्ऋतिः) अलक्ष्मी (मो) और न (अरातिः) कंजूस पुरुष (तारीत्) दबावे ॥३॥
Connotation: - मनुष्य पवित्र धार्मिक व्यवहारों से संसार के आवश्यक पदार्थों को प्राप्त करके सदा सुख भोगे ॥३॥ इति द्वादशोऽनुवाकः ॥
Footnote: ३−(अभ्यञ्जनम्) अभ्यङ्गसाधकं तैलादिकम् (सुरभि) सुगन्धं चन्दनादिकम् (सा) प्रसिद्धा (समृद्धिः) सम्पत्तिः (हिरण्यम्) सुवर्णान् (वर्चः) तेजः। बलम् (तत्) (उ) (पवित्रमम्) ड्वितः क्त्रिः। पा० ३।३।८८। इति बाहुलकात् पूञ् पवने−क्त्रिः। क्त्रेर्मम् नित्यम्। पा० ४।४।२०। इति मम्। शुद्धिसाधनम् (एव) एवम् (सर्वा) सर्वाणि (पवित्रा) शोधनानि (वितता) विस्तृतानि (अस्मदधि) अस्माकमुपरि (तत्) तस्मात् (मा) निषेधे (निर्ऋतिः) अलक्ष्मीः (मो तारीत्) अ० २।७।४। मैवातिक्रामत् (अरातिः) अ० २।७।४। अदाता कृपणः ॥