दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्यपप्त॒द्रसे॑न। समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥
दिव: । नु । माम् । बृहत: । अन्तरिक्षात् । अपाम् । स्तोक: । अभि । अपप्तत् । रसेन । सम् । इन्द्रियेण । पयसा । अहम् । अग्ने । छन्द:ऽभि: । यज्ञै: । सुऽकृताम् । कृतेन ॥१२४.१॥
PANDIT KSHEMKARANDAS TRIVEDI
आत्मा की शुद्धि का उपदेश।