Go To Mantra
Viewed 96 times

शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दं अ॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दातु॒ तन्मे॑ ॥

Mantra Audio
Pad Path

शुध्दा: । पूता: । योषित: । यज्ञिया: । इमा: । ब्रह्मणाम् । हस्तेषु । प्रऽपृथक् । सादयामि। यत्ऽकाम: । इदम् । अभिऽसिञ्चामि । व: । अहम् । इन्द्र: । मरुत्वान् । स: । ददातु । तत् । मे ॥१२२.५॥

Atharvaveda » Kand:6» Sukta:122» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

आनन्द की प्राप्ति करने का उपदेश।

Word-Meaning: - (शुद्धा) शुद्ध स्वभाववाली, (पूताः) पवित्र आचरणवाली, (यज्ञियाः) पूजनीय (इमाः) इन (योषितः) सेवायोग्य स्त्रियों को (ब्रह्मणाम्) ब्रह्मज्ञानी पुरुषों के (हस्तेषु) हाथों के बीच [विज्ञान के बलों में] (प्रपृथक्) नाना प्रकार से (सादयामि) मैं बैठालता हूँ। [हे विद्वान् स्त्री-पुरुष !] (यत्कामः) जिस उत्तम कामनावाला (अहम्) मैं (इदम्) इस समय (वः) तुम्हारा (अभिषिञ्चामि) अभिषेक करता हूँ, (सः) वह (मरुत्वान्) दोषनाशक गुणोंवाला (इन्द्रः) सम्पूर्ण ऐश्वर्यवाला जगदीश्वर (तत्) वह वस्तु (मे) मुझे (ददातु) देवे ॥५॥
Connotation: - परमात्मा ने विज्ञानप्राप्ति में स्त्री-पुरुषों को समान रचा है, इसलिये मनुष्य विद्वान् स्त्री-पुरुषों से सादर विज्ञान प्राप्त करके परमात्मा में श्रद्धालु होकर आनन्दित होवे ॥५॥
Footnote: ५−(शुद्धाः) निर्मलस्वभावाः (पूताः) पवित्राचाराः (योषितः) अ० १।१७।१। सेव्याः स्त्रीः (यज्ञियाः) पूजार्हाः (इमाः) विदुष्यः (ब्रह्मणाम्) ब्रह्मज्ञानिनाम् (हस्तेषु) करेषु। विज्ञानबलेषु (प्रपृथक्) प्रथेः कित् सम्प्रसारणं च। उ० १।१३७। इति प्रथ प्रख्याने−अजि, स च कित्। पृथक् प्रथतेः−निरु० ५।२५। विस्तारेण। नाना प्रकारेण (सादयामि) स्थापयामि (यत्कामः) यत्पदार्थं कामयमानः (इदम्) इदानीम् (अभिषिञ्चामि) अभिषिक्तान् करोमि (वः) युष्मान् विदुषः स्त्रीपुरुषान् (मरुत्वान्) अ० १।२०।१। मारयन्ति दोषानिति मरुतः। दोषनाशकगुणैर्युक्तः (सः) प्रसिद्धः (ददातु) प्रयच्छतु (तत्) इष्टं फलं (मे) मह्यम् ॥