Go To Mantra
Viewed 98 times

अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ॥

Mantra Audio
Pad Path

अनुऽआरभेथाम् । अनुऽसंरभेथाम् । एतम् । लोकम् । श्रत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥१२२.३॥

Atharvaveda » Kand:6» Sukta:122» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

आनन्द की प्राप्ति करने का उपदेश।

Word-Meaning: - (दम्पती) हे स्त्री-पुरुषो ! [सत्कर्म को] (अन्वारभेथाम्) निरन्तर आरम्भ करो, (अनुसंरभेथाम्) मिल कर आरम्भ करते रहो, (श्रद्दधानाः) श्रद्धावाले लोग (एतम्) इस [स्वर्ग] (लोकम्) लोक को (सचन्ते) निरन्तर सेवते हैं। (अग्नौ) अग्नि में (पक्वम्) पका हुआ (यत्) जो [अत्र] (वाम्) तुम्हारे लिये (परिविष्टम्) उपस्थित है, (तस्य गुप्तये) उसकी रक्षा के लिये (सम् श्रयेथाम्) तुम दोनों परस्पर आश्रय लो ॥३॥
Connotation: - सब स्त्री-पुरुष गृहस्थ आश्रम में यथावत् प्रवेश करके परमात्मा में श्रद्धा रखते हुए अपने कर्तव्य का यथावत् पालन करके सदा सुख भोगें ॥३॥
Footnote: ३−(अन्वारभेथाम्) निरन्तरमारम्भं कुरुतं समेत्य (अनुसंरभेथाम्) निरन्तरं संयुक्तौ भूत्वा आरम्भं कुरुतम् (एतम्) (लोकम्) दर्शनीयं स्वर्गम् (श्रद्धधानाः) श्रद्धावन्तः कर्मानुष्ठानतत्पराः (सचन्ते) सेवन्ते−निरु० ३।२१। (यत्) अन्नम् (वाम्) युवाभ्याम् (पक्वम्) पाकेन संस्कृतम् (परिविष्टम्) प्राप्तम् (अग्नौ) पावके (तस्य) अन्नस्य (गुप्तये) रक्षणाय (दम्पती) राजदन्तादिषु परम्। पा० २।२।३१। अत्र पाठात् जायाया दमभावो विपात्यते। भार्य्यापती (सम्) समन्तात् (श्रयेथाम्) श्रिञ् सेवायाम्, सेवेथाम् ॥