Go To Mantra
Viewed 92 times

त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन। अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ॥

Mantra Audio
Pad Path

ततम् । तन्तुम् । अनु । एके । तरन्ति । येषाम् । दत्तम् । पित्र्यम् । आऽअयनेन । अबन्धु । एके । ददत: । प्रऽयच्छन्त: । दातुम् । च । इत् । शिक्षान् । स: । स्व:ऽग: । एव ॥१२२.२॥

Atharvaveda » Kand:6» Sukta:122» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

आनन्द की प्राप्ति करने का उपदेश।

Word-Meaning: - (येषाम्) जिन लोगों का (पित्र्यम्) पितरों, माननीयों का प्रिय (दत्तम्) दान (आयनेन) यथाशास्त्र होता है, (एके) वे कोई (ततम्) फैले हुए (तन्तुम् अनु) वस्त्र में सूत के समान सर्वव्यापक ब्रह्म के पीछे-पीछे (तरन्ति) तरते हैं। (एके) कोई-कोई (अबन्धु) बन्धुरहितों [अनाथों] को (ददतः) देते हुए और (प्रयच्छन्तः) सौंपते हुए रहते हैं, [जो] (दातुम्) दान करने को (च इत्) अवश्य ही (शिक्षान्) समर्थ हों, (स एव) वही [उनको] (स्वर्गः) स्वर्ग है ॥२॥
Connotation: - जो मनुष्य सुपात्रों का सत्कार करके परमात्मा की आज्ञा पालन करते हैं, वे ही विशेष सुख के भागी होते हैं ॥२॥
Footnote: २−(ततम्) विस्तृतम् (तन्तुम्)−म० १। पटे सूत्रवत्सर्वव्यापकं ब्रह्म (अनु) अनुलक्ष्य (एके) केचन धीराः (तरन्ति) पारं गच्छन्ति (येषाम्) धीराणाम् (दत्तम्) दानम् (पित्र्यम्) अ० ६।१२०।२। पितॄणां प्रियम् (आयनेन) आ+अय गतौ−ल्युट्। आगमेन। यथाशास्त्रम् (अबन्धु) सुपां सुलुक्०। इति चतुर्थ्या लुक्। अबन्धुभ्यः। बन्धुरहितेभ्यः। अनाथेभ्यः (एके) सुजनाः (ददतः) दानं कुर्वन्तः (प्रयच्छन्तः) समर्पयन्तः सन्ति (दातुम्) (च इत्) अवश्यमेव (शिक्षान्) शक्लृ शक्तौ सनि। सनि मीमा०। पा० ७।४।५४। इत्यचः स्थाने इस्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इत्यभ्यासलोपः। लेटि आडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। संयोगान्तलोपे तस्य असिद्धत्वान्नलोपाभावः। शत्रुमिच्छेयुः। समर्था भवेयुः ॥