Go To Mantra

वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये। दु॒ष्वप्न्यं॑ दुरि॒तं निःष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥

Mantra Audio
Pad Path

विऽसाना । पाशान् । वि । स्य । अधि । अस्मत् । ये । उत्ऽतमा: । अधमा: । वारुणा: । ये । दु:ऽस्वप्न्यम् । दु:ऽइतम् । नि: । स्व । अस्मत् । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१२१.१॥

Atharvaveda » Kand:6» Sukta:121» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मोक्ष पाने का उपदेश।

Word-Meaning: - [हे शूर !] (विषाणा=०−णेन) विविध भक्ति के साथ (पाशान्) फन्दों को (अस्मत्) हमसे (अधि) अधिकारपूर्वक (वि ष्य) खोल दे, (ये) जो (उत्तमाः) ऊँचे और (ये) जो (अधमाः) नीचे फन्दे (वारुणः) जो दोषनिवारक वरुण परमात्मा से आये हैं। (दुःष्वप्न्यम्) नींद में उठे कुविचार और (दुरितम्) विघ्न को (अस्मत्) हम से (निः) निकाल दे, (अथ) फिर (सुकृतस्य) धर्म के (लोकम्) समाज में (गच्छेम) हम जावें ॥१॥
Connotation: - जो मनुष्य भक्ति की शक्ति को बढ़ाकर अपने बुरे कर्म के फल दुःखों को पुरुषार्थ से हटाकर सोते-जागते उत्तम विचार करते हैं, वे ही पुण्यात्मा कीर्ति पाते हैं ॥१॥
Footnote: १−(विषाणा) अ० ३।७।१। षण सम्भक्तौ−घञ्। सुपां सुलुक्०। पा० ७।१।३९। इति आत्। विविधसेवनेन (पाशान्) बन्धान् (वि ष्य) षो अन्तकर्मणि। विमुञ्च (अधि) अधिकृत्य (अस्मत्) अस्मत्तः (ये) पाशाः (उत्तमाः) ऊर्ध्वकायाश्रिताः (अधमाः) अधःकायाश्रिताः (वारुणाः) तत आगतः। पा० ४।३।७४। इत्यण्। वरुणात् कष्टनिवारकात् परमेश्वरात् प्राप्ताः (ये) (दुःष्वप्न्यम्) अ० ६।४६।३। कुनिद्राभयं विचारम् (दुरितम्) कष्टम् (निः स्व) तन्वादीनां छन्दसि बहुलम्। वा० पा० ६।४।८६। षू प्रेरणे यण्। निः सुव। निर्गमय (अथ) अनन्तरम् (गच्छेम) प्राप्नुयाम (सुकृतस्य) पुण्यस्य (लोकम्) समाजम् ॥